________________
चाऽपि स्वतः प्रामाण्यज्ञप्तिस्तैस्तत्राऽनुमोदिताऽस्ति । अत एषु स्थलेषु स्वतोऽन्यत्र च परतः प्रामाण्यग्रह इति तेषां मतं परिज्ञायते । बौद्धैः प्राचीनं स्वमतं त्यक्त्वा कृतेऽनियमितपक्षस्य स्वीकारे प्रथमत एवाऽनियमित पक्षप्रतिपादकस्याऽऽर्हतमतस्य प्रभावः परिलक्ष्यते ।
अधुनाऽत्र जैनमतविचारणा समाद्रियते । प्रामाण्यवादविषयकस्य जैनमन्तव्यस्य सुस्पष्टं निरूपणं प्रमाणनयतत्त्वालोके समुपलभ्यते "तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च ।” (१.२१) अस्य विवरणं स्याद्वादरत्नाकरव्याख्यायामित्थं दृश्यते - "ज्ञानस्य प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुण-दोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परतः" इति ।
अस्मिन् मते प्रामाण्यनिश्चय एव प्रवृत्तिजनक इत्येकान्तो नाऽस्ति । अनभ्यासदशायां प्रामाण्यसन्देहादपि प्रवृत्तिस्तत्साफल्यवैफल्याभ्यां प्रामाण्या - ऽप्रामाण्यनिश्चयश्च स्वीक्रियेते अत्र |
वस्तुतः प्रामाण्या-ऽप्रामाण्यनिश्चयेऽनेकान्तोऽयमनुभवसिद्धः । क्वचिद् वयं स्वत एव ज्ञानस्वरूपं निश्चिनुमः क्वचिच्च प्रवृत्तेः फलाधारेणेति को वा निषेद्धुमर्हति ? अनुभवसिद्धं सत्यमिदमुपेक्ष्याऽन्यतरपक्षस्याऽऽग्रहस्तु त्याज्य एव । स्वतः प्रामाण्यग्रहणस्यैकान्तेऽनभ्यासदशोत्पन्नज्ञाने प्रामाण्यसंशयो न घटते, परतस्त्वेकान्ते चाऽभ्यासदशोत्पन्नज्ञाने प्रामाण्यस्य स्वतोऽनुभूतेरसम्भवः । दोषयोरनयोर्निवारणार्थं क्रमशः स्वतःप्रामाण्यवादिभिः कृतः 'दोषाभावे सतीति परिष्कारः, परतः प्रामाण्यवादिभिश्चाऽभ्यस्तस्थले प्रवृत्तेर्विनैव स्वतोऽनुमितेः स्वीकार:, 'घट्टकुट्यां प्रभात' मिति न्यायेन प्रामाण्यग्रहणेऽनेकान्तमेव समर्थयतः ।
अत्रेदमपि ध्येयम् - स्वतःप्रामाण्यपक्षधरैर्मीमांसकादिभिः परतः प्रामाण्यवादिभिर्नैयायिकैश्च प्रामाण्यग्रहणे मिथो विपक्षत्वेऽपि, अप्रामाण्यग्रहणे तु परतस्त्वमेवैकान्तेनाऽङ्गीकृतम् । स्याद्वादिनस्त्वत्राऽपि युक्तिपुरस्कृतमनुभवसिद्धं चाऽनेकान्तमुररीकृतवन्तः । अर्थात् तैरप्रामाण्यस्याऽप्यभ्यासदशायां स्वतो ऽनभ्यासदशायां च परतो ज्ञप्तिः स्वीकृतेति ।
प्रामाण्यवादस्य चर्चायामिदं स्मर्तव्यं यत् तत्तद्दर्शनस्य सम्मतेषु सर्वेष्वपि प्रमाणेषु तत्तद्दर्शनेनाऽङ्गीकृत: स्वत:पक्षः परतःपक्षो वा सम्बध्यते, तथाऽपि प्रामाण्यवादस्तु प्रायः प्रत्यक्षप्रमाणे एव केन्द्रितो भवति । अत्र चैवं स्पष्टीकुर्वन्ति परमगुरवः श्रीविजयनेमिसूरयः स्वप्रणीते सन्मतितर्कवृत्तिविवरणे - " यद्यपि प्रमामात्रस्यैव प्रामाण्यमुत्पत्तौ स्वतः परतो वेति विचार्यते । तत्र प्रत्यक्षप्रमाणमधिकृत्य गुणसाधनतद्बाधनप्रकारो नाऽतिसामञ्जस्यमञ्चति । तथापि शिष्यबुद्धिसौकर्याय प्रत्यक्षादिप्रामाण्यविशेषमाश्रित्य द्विचार आदृतः । विशेषे स्वतस्त्व - परतस्त्वान्यतरसिद्धौ तन्न्यायेन सामान्येऽपि तदुपसंहारः कर्तुं शक्य इत्यभिप्राय:..." इति ।
इतो विशेषजिज्ञासुभिः सन्मतितर्कवृत्तिगत - प्रामाण्यवादचर्चाऽवलोकनीया ।
७१