________________
'शक्तयश्च सर्वभावानां स्वत एव भवन्ती'ति मीमांसकानां प्ररूपणायाः प्रतिवादे नैयायिकाः कथयन्ति यत् तत्तत्पदार्थे तत्तच्छक्तेर्नियम एव सूचयति शक्तेः कारणसापेक्षत्वम् । शक्तीनां स्वतस्त्वे तु सर्वत्राऽपि सर्वा एव शक्तयः सम्भवेयुरित्यनायत्या शक्तिरूपं प्रामाण्यमपि स्वोत्पत्तौ कारणसापेक्षमङ्गीकर्तव्यम् । तथा च तत् परत एव । किञ्च, अप्रामाण्यमपि भ्रमात्मकज्ञानगता पदार्थस्याऽयथावस्थितबोधजनिका शक्तिरेव । शक्तीनां स्वतस्त्वमनने तदपि स्वत एव स्यात् । न च तद् मीमांसकादिस्वतःप्रामाण्यवादिनां सम्मतमिति, अप्रामाण्यवत् प्रामाण्यस्य शक्तिरूपत्वेऽपि परतस्त्वमेवाऽभ्युपगन्तव्यमिति ।
इदानीं प्रामाण्या-ऽप्रामाण्ययोर्शप्तौ परतस्त्वं चिन्त्यते । अस्य भावार्थस्तु ज्ञानस्य ग्रहणेन सह नैव तद्गतं प्रामाण्यमप्रामाण्यं वा गृह्यते, किन्तु ज्ञानग्रहणानन्तरं ज्ञानान्तरेण तस्याऽनुमितिर्जायते ।
-
१
अयमत्राऽऽशयः - अनुभवस्याऽनन्तरमनुभवाश्रिता प्रवृत्तिर्भवति । प्रवृत्तेः साफल्ये च तत्प्रवर्तकेऽनुभवे यथार्थत्वस्याऽधिगतिः । प्रवृत्तेविफलतायां चाऽयथार्थत्वस्य । एवमनुभवस्योत्पत्तावेव न किल तद्गतप्रामाण्या-ऽप्रामाण्ययोर्ग्रहणं, किन्तु प्रवृत्तिफललिङ्गकानुमानगम्यत्वं तयोरिति परतस्त्वम् । यद्यप्यनभ्यासदशोत्पन्नज्ञाने एव प्रामाण्या - ऽप्रामाण्यानुमित्यर्थं प्रवृत्तेरपेक्षणम्, अभ्यासदशायां तु पूर्वज्ञानसादृश्यमवलम्ब्य प्रवृत्तेः पूर्वमपि प्रामाण्या - ऽप्रामाण्यानुमानस्य सम्भवोऽस्त्येवं, परं प्रामाण्यऽप्रामाण्यग्रहणमनुमानेनैव भवत्युभयत्रेति परतस्त्वं निश्चप्रचम् ।
प्रामाण्यसंशयोऽपि प्रवृत्तिजनकः, संवादात्मकप्रवृत्तिजननयोग्यत्वमेव ज्ञाननिष्ठं प्रामाण्यं, सर्वत्र स्वतः प्रामाण्यग्रहे प्रामाण्यसंशयानुपपत्तिरित्यादयोऽस्य पक्षस्य प्रमुखाः सिद्धान्ताः ।
५. अनियमितः पक्षः - प्राचीनबौद्धैः प्रतिपादितस्य मतस्य निरूपणमस्माभिर्दृष्टम् । नव्यबौद्धैस्तु तद् मतं त्यक्त्वा नूतनं मतं स्वीकृतम् । अस्य मतस्य निरूपणं कुर्वता बौद्धाचार्य - शान्तरक्षितेन तत्त्वसङ् ग्रहपञ्जिकायां (श्लोक-२८१०-११) पूर्वोक्तान् चतुरोऽपि पक्षान् निरस्याऽनियम एव स्थिरीकृतः । अस्य मतस्य विवरणे आचार्यकमलशील उल्लिखति (तत्त्व. पं. श्लोक ३१२२ वृत्तौ ) यत् " न हि बौद्धैरेषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टः, अनियमपक्षस्येष्टत्वात् । तथाहि - उभयमप्येतत् किञ्चित् स्वतः किञ्चित् परत इति” । इह यद्यपि स्वतस्त्व - परतस्त्वयोर्विषयविभागो न दर्शितस्तथापि सन्मतितर्कवृत्तौ प्रामाण्यवादे ध्वनिश्रवणं, चित्रालिखितरूपदर्शनं, गन्धरसस्पर्शबुद्धयः, पदार्थानां तत्तत्कार्येषु व्यापारणमित्यादिज्ञानानामर्थक्रियानुभवरूपत्वात् स्वतः सिद्धं प्रामाण्यमित्याशयो बौद्धानां लक्ष्यते । अभ्यासदशोत्पन्नप्रत्यक्षेष्वनुमानेषु
१. “प्रामाण्यं हि समर्थप्रवृत्तिजनकत्वादनुमेयम्" - न्यायवार्तिकतात्पर्यवृत्तिः १.१.१
२. " अभ्यासदशापन्नज्ञानेषु द्वितीयतृतीयजलादिज्ञानेषु तु प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणाऽपि पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन प्रामाण्यमवधार्यते " - तर्ककौमुदी
३. क्वचिदभ्यासदशोत्पन्नज्ञानस्थले द्वितीयानुव्यवसायेनाऽपि प्रामाण्याप्रामाण्यग्रहणं स्वीकृतमस्ति । द्रष्टव्यं तर्कप्रकाशः
- खण्ड ४ ।
४. पृष्ठम् ६८
७०