SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पत्रम् मुनिधर्मकीर्तिविजयः ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे । पूज्यपादगुरुभगवद्भिः साकं विविधनगरेषु विहरन्तो वयं सर्वेऽपि ‘पादलिप्त' (पालीताणा) नगरसमीपस्थे तीर्थाधिराज-परमपवित्रतम-श्रीशत्रुञ्जयतीर्थस्यैवैकभागस्वरूपे श्रीकदम्बगिरितीर्थमध्ये महोत्सवादिप्रयोजनराहित्येन केवलं शास्त्र-स्वाध्यायार्थमेवाऽऽगता स्मः । प्रायो मासपर्यन्तमत्रैवोपवत्स्यामः । बन्धो ! तीर्थमेतदतीव रमणीयं कमनीयं चाऽस्ति । अद्यतनकालीनैः समस्तप्रदूषणैविरहितमेतन्निर्दोषं तीर्थक्षेत्रमस्ति । अत्र न विशिष्टमुपाहारगृहं विद्यते, ततो 'दाबेली-वडापाउ-होटडोग-मन्चूरीयन-ढोसापीझा-इडली-पाणीपुरी-सेन्डवीच'-इतिपदवाच्यानां वस्तूनां नामान्यप्यत्र न कोऽपि जानाति, तर्हि तत्प्राप्तिस्तु कथं भवेदत्र ? अत्र विशिष्टानि शीतपेयान्यपि न प्राप्यन्ते । अत्र केवलं चायं तमाखु-गुटका धूम्रवर्तिका च प्राप्यन्ते । आस्तामद्यतनसुविधाभिः अत्र सामान्यसुविधारहितानि पुरातनकालीनान्येवाऽऽवासगृहाणि विद्यन्ते । अन्यत्र गमनार्थं टेक्सी-रिक्षेतियानान्यपि नाऽत्रोपलब्धानि भवन्ति, केवलं सर्वकारीयाणि बस्यानानि निश्चितकाले एव प्राप्यन्ते । एवमेष ग्रामोऽद्यतनसुविधाघ्रातो नाऽस्ति । ततो न केऽपि नगरवास्तव्या जना अत्राऽगच्छन्ति, विशिष्टकार्यसम्पादकेच्छव एवाऽत्राऽऽगच्छन्ति । एवं स्थितौ वयमपि निर्बन्धनतयाऽविक्षिप्तमनसा प्रसन्नवदनेन चाऽऽदिनं स्वाध्यायं प्रकुर्मः । ततोऽत्र मनस्यपूर्वशान्तिरनुभूयतेऽस्माभिः । संजोगमूला जीवेण पत्ता दुक्खपरम्परा । तम्हा संजोगसंबंध सव्वं तिविहेण वोसिरिअं ॥ (संयोगमूला जीवेन प्राप्ता दुःखपरम्परा । ततः संयोगसम्बन्धः सर्वः त्रिविधेन व्युत्सृष्टः) ७९
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy