________________
-
वैराग्यभावस्तन्तथा। “भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रिया लीलापदार्थेषु विभूतिबुधजन्तुषु ” इति मेदिनी । अधिगत्य प्राप्य । गृहीतदीक्षम् - गृहीता स्वीकृता दीक्षा पञ्चमहाव्रतपालनप्रतिज्ञा येन स गृहीतदीक्षस्तन्तथा । सुशिक्षम् - सुशोभना शिक्षोपदेशः लौकिकशास्त्रीयाध्यात्मिककर्तव्यज्ञानमिति यावत् यस्य स सुशिक्षस्तन्तथा । ते - श्रीमतो भवतः । शमाश्रयः - शमः प्रशम आश्रयोऽवलम्बनं यस्य स शमाश्रयस्तन्तथा । ते श्रीमतो यतिवृन्दवन्दितक्रमसरोरुहस्य भवतः । क्रमयुगाचलसंश्रितम् - क्रमयुगं चरणयुगलमेवाऽचलः पर्वतः क्रमयुगाचलस्तं संश्रितः प्राप्तः क्रमयुगाचलसंश्रितस्तन्तथा । माता - जननी। पिता जनकः । प्रियतमा अतिप्रिया भार्य्या । तनयः - पुत्रः । स्नेहाविलः - प्रेमविह्वलः, तद्विषयकरागवशीभूतमानस इति यावत् । (द्रष्टुम् ) आयाति - आगच्छति । (परम् - किन्तु ) आक्रामति • दीक्षां परित्यज्य गृहं गन्तुमुत्साहयति । न - नहि । तत्रत्यां तस्य शिक्षादिव्यवस्थां परमौन्नत्यसम्पादनशीलसंरक्षणाद्यर्थं सततं शास्त्राद्यभ्यासरीतिं दृष्ट्वा मुग्धो भवतीति भावः ||३५||
-
—
रूपादिपञ्चविषयात्मककाष्ठजातं
ज्ञानादिभस्मकरणं परिनष्टसातम् ।
कामानलं विकृतिधूमविरूपवेषं
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥
अन्वयः त्वन्नामकीर्तनजलम्, रूपादिपञ्चविषयात्मककाष्ठजातम्, ज्ञानादिभस्मकरणम्, परिनष्टसातम्, विकृतिधूमविरूपवेषम्, अषम्, कामानलं, शमयति ॥३६॥
वृत्ति: त्वन्नामकीर्तनजलम् - तव भवतो नामाऽभिधानं त्वन्नाम, तस्य कीर्तनं भूयोभूयः समुच्चारणं तदेव तापशमककत्वाज्जलं सलिलन्तथा । कर्तृ । रूपादिपञ्चविषयात्मककाष्ठजातम् - रूपादयो ये पञ्च विषया इन्द्रियार्थास्त एवाऽत्मा स्वरूपं यस्य तदात्मकं काष्ठजातमिन्धनकदम्बं यस्य स रूपादिपञ्च विषयात्मककाष्ठजातस्तन्तथा । "रूपं शब्दो - गन्ध-रस-स्पर्शाश्च विषया अमी । गोचरा इन्द्रियार्थाश्चेत्यमरः । ज्ञानादिभस्मकरणम् - ज्ञानं सम्यग्दर्शनमादिः प्रथमावयवो यस्य तदाद्येव भस्म - क्षारः, क्षेति यावत्, ज्ञानादिभस्म तस्य करणमसाधारणं कारणं साधकतमं वा ज्ञानादिभस्मकरणन्तत्तथा । " असाधारणं कारणं करणम्” इति तर्कसङ्ग्रहः, "साधकतमं करणम्" इति महामुनिपाणिनिसूत्रम्, परिनष्टसातम् - परि सर्वतोभावेन नष्टं विनष्टं सातं सौख्यं यस्मात् स परिनष्टसातस्तन्तथा । " अथो शर्म निर्वृन्तिः । सातं सौख्यं सुखम्" ६|६|| इत्यभिधानचिन्तामणिः । विकृतिधूमविरूपवेषम् - विकृतिर्मानसिकविकार एव धूमोऽग्निचिह्नं विकृतिधूमंस्तेन विरूपो वेषो नेपथ्यं यस्य स विकृतिधूमविरूपवेषस्तन्तथा । "धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् । ४ १९९॥ वेषो नेपथ्यमाकल्पः " ३।२९९ ॥ इत्यभिधानचिन्तामणिः । अशेषम् - समस्तम् । कामः कन्दर्प एव अनलो वह्निः कामानलस्तन्तथा । शमयति - निर्वापयति । भवतां कीर्तनेन कामसन्तापो दूरं पलायते इति भावः । सावयवसमस्त-वस्तुविषयरूपकालङ्कारः । लक्षणाद्युक्तमवसेयम् ॥३६॥
५५