________________
निर्भीकतां नु भवतां समताश्रितानां
__ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ अन्वयः श्रीमान्, व्रतोच्चरणतीर्थविधानभूते, सद्धर्मकर्मणि, महाभयम्, आविधूते, समताश्रितानाम्, भवताम्, निर्भीकताम्, दृष्टवा, भवदाश्रितानाम्, भयम्, नो, भवति, नु ||३४||
वृत्तिः श्रीमान् - श्रीः शोभा सम्पत्तिर्लक्ष्मीरस्त्यस्येति तथा । "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते" इति शाश्वतः । व्रतोच्चरणतीर्थविधानभूते - व्रतस्य संयमनियमस्योच्चरणं दीक्षादिकालिकसमुद्घोषमन्त्रोच्चार इति यावत्, व्रतोच्चारणं तच्च तीर्थस्य कादम्बादिपवित्रक्षेत्रस्य पात्रस्योपाध्यायस्य शास्त्रस्य वा विधानं निर्माणं तत्तीर्थविधानञ्च व्रतोच्चरणतीर्थविधानम्, तद्भूतं प्राप्तम् तस्य भूतमुचितं वा व्रतोच्चारणतीर्थ विधानभूतम् तस्मिंस्तथा। "तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजःसु च । अवतारषिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु", "भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते । प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरे तु ना । कुमारेऽपि" इत्युभयम् मेदिनी । सद्धर्मकर्मणि - सन् शोभनश्चाऽसौ धर्मः सुकृतं सद्धर्मस्तस्य कर्मकार्य सद्धर्मकर्म तस्मिस्तथा । महाभयम - महदधिकं च तद्भयं साध्वसं महाभयम, तत्तथा "सन्महत्परमोत्तमोत्कष्टैः" इत्यनेन कर्मधारयसमासः । आविधूते - दूरीकरोति । समताश्रितानाम् - समतां समदशितामाश्रिताः समताश्रितास्तेषान्तथा । भवताम् - अनवद्यविद्याविद्योतितविशुद्धमानसानाम् श्रीमतां सूरीश्वरचक्रचक्रवर्तीनां युष्माकम्, निर्भीकताम् - निर्गता भीर्भयं येषां ते निर्भीका: “अनेकमन्यपदार्थे" इत्यनेन बहुव्रीहिसमासानन्तरं "शेषाद्विभाषा" इत्यनेन वैकल्पिककप्प्रत्ययः, तेषां भावो निर्भीकता "प्रकृतिजन्यबोधे प्रकारीभूतो भावः" इत्यभियुक्तोक्तेर्भयराहित्यमिति यावत् तान्तथा । दृष्ट्वा - अवलोक्य भवदाश्रितानाम् - भवन्तं त्वामाश्रिता भंवदाश्रितास्तेषान्तथा, भवदनुयायिनामन्तेवासिनां सेवकानां च । भयम् - साध्वसम् "भयं भीीतिरातङ्क आशङ्का साध्वसं दरः" २।२१५।। इत्यभिधानचिन्तामणिः । नो - नहि । "अभावे, नह्य नो . नाऽपि" इत्यमरकोशः । भवति - जायते । नु - वितर्के । “नु वितर्कोपमानयोः" इति मेदिनी । "यद्यदाचरति श्रेष्ठ-स्तत्तदेवेतरो जनः" इति नीतिरीत्यनुशरणादिति भावः ॥३४॥
वैराग्यभावमधिगत्य गृहीतदीक्षं
माता पिता प्रियतमा तनयः सुशिक्षम् । स्नेहाविलः समुपयाति शमाश्रयं ते
नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ अन्वयः वैराग्यभावम्, अधिगत्य, गृहीतदीक्षम्, सुशिक्षम्, ते, शमाश्रितम्, ते, क्रमयुगाचलसंश्रितम्, माता, पिता, प्रियतमा, तनयः, स्नेहाविलः, (द्रष्टुम्) आयाति, (परम्) आक्रमति, न ॥३५॥
वृत्तिः वैराग्यभावम् - विशिष्टो परमतत्त्वादिविषयको रागः प्रेम विरागस्तस्य भावो वैराग्यम् । "गुणवचनब्राह्मणादिभ्य: ष्यङ्" इत्यादिना ष्यङि प्रत्यये, तस्य भावो भावनं विचारोऽभिप्राय इति भावः ।