________________
गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतमिति "स्फुटप्रतीयमानरहितत्वं चित्रकाव्यस्य लक्षणम्, तच्च पुनर्द्विविधम् - शब्दचित्रमर्थचित्रञ्च" ॥३२।।
तेजस्तवैव भगवन् विशदान्तरस्य
____ यादृग् विभाति न यथा मनुजान्तरस्य । सूर्य्यस्य या लसति कान्तिरुदासिनोऽपि
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ अन्वयः भगवन् !, विशदान्तरस्य, तव, एव, तेजः, यादृक्, विभाति, तथा, मनुजान्तरस्य, न, उदासिनः, अपि, सूर्य्यस्य, या, कान्तिः, लसति, तादृक्, विकाशिनः, अपि, ग्रहगणस्य, कुतः ? ॥३३॥
वृत्तिः भगवन् ! - षड्विधैश्वर्य्यशालिन् श्रीमन् सततं विविधशास्त्र-समनुशीलननिवेशितान्तःकरण:सम्पादितसकलकलिकालकवलितमानवशास्त्रार्थसदाचारप्रतिष्ठप्रख्यातवैदुष्यगुरुवर ! सूरीश्वर ! विशदान्तरस्य - विशदं निर्मलमन्तरं मध्यं हृदयमिति यावद्यस्य स विशदान्तरस्तस्य तथा । "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्यात्मसदृशेषु" इति मेदिनी । तव - तत्रभवतो विबुधवृन्दवन्द्यचरणारविन्दस्य नरपतिमौलिमालाचुम्बितक्रमसरोरुहस्य भवतः । एव - अवधारणार्थकम, तेन भवत एव न त्वन्यस्येति फलति । तेजः - प्रभावः । यादृक् - यद्वत् । विभाति - शोभते । तथा - तादृक् । मनुजान्तरस्य - अन्यो मनुजो मनुष्यो मनुजान्तरम् तस्य तथा "मयूरव्यंसकेत्यादयः" ३।१।११६।। इत्यनेन शाकपार्थिवादेशकृतिगणत्वात्समासः । न - नहि । दृष्टान्तेन समर्थयति - सूर्य्यस्य या लसतीत्यादि - उदासिनः - उदासत औदासीन्यमवलम्बते तच्छीलास्तथा "अजातेः शीले" ५।१।१५४|| इति सूत्रेण तच्छीले णिनिः प्रत्ययः । अपि - सम्भावनायाम् । सूर्यस्य - दिवाकरस्य । या - यादृशी तेजोमयी । कान्तिः - शोभा । "शोभा कान्तिर्युतिश्छविः" इत्यमरः । लसति - शोभते । तादृक् - तादृशी । विकासिनः - विकाशवतः । अपि - खलु । ग्रहगणस्य - ग्रहाः चन्द्रादयस्तेषां गणः समुदायो ग्रहगणस्तस्य तथा । "रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः । बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः" इत्यमरकोशः । कुतः - कस्मात् । भवेदितिशेषः । “दृष्टान्तालङ्कारः" | "दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं, जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर्लवित एव वानरभटैः किन्त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः" इत्यादौ सारस्वतसारावबोधः श्रीमतो मुरारिकवेरेवाऽस्ति न त्वन्यस्य कस्यचित्तथाऽनिर्वचनीयं तेजो भवत्येव नाऽन्यत्रेति दृष्टान्तस्य स्फुटत्वात् ।।३३।।
सद्धर्मकर्मणि महाभयमाविधूते
श्रीमान् व्रतोच्चरणतीर्थविधानभूते ।