________________
वृत्तिः शुभवतः - प्रशस्तं शुभं कल्याणमस्त्यस्येति शुभवान् तस्य तथा, कल्याणशालिन इत्यर्थः । "श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्" इत्यमरः । भवतः तत्रभवतः सूरीश्वरचक्रचक्रवर्तिनः श्रीमतस्तव । जगत्प्रभावम् - जगति भुवने प्रभावोऽनुभावस्तेज इति यावद्यस्य तत्तथा । "अनुभावः प्रभावे स्यान्निश्चये भावबोधके" इति मेदिनी । उपनीतमुनीश्वरत्वम् - मुनीनां साधूनां श्रमणानामिति यावदीश्वरः प्रभुर्मुनीश्वरस्तस्य भाव मुनीश्वरत्वम् उपनीतं - सम्पन्नं मुनीश्वरत्वं यस्मात्तत्तथा । त्रिजगत: - भुवनत्रयस्य । परमेश्वरत्वम् - परम उत्कृष्टश्चाऽसावीश्वर ईशिता परमेश्वरस्तस्य भावस्तथा । किमपि - अनिर्वचनीयप्रभावम् । रत्नत्रयम् - रत्नानां स्वजातिश्रेष्ठानां ज्ञानदर्शनचारित्राणां त्रयं रत्नत्रयम् । “रत्नं स्वजाति श्रेष्ठेऽपि मणावपि नपुंसकम्" इति मेदिनी । चकास्ति - द्योतते । यत्सदृशम् - येन रत्नत्रितयेन सदृशं तुल्यन्तथा । लोकत्रये - त्रयोऽवयवा अस्येति त्रयम् संख्याया अवयवे तयप् इत्यनेन तयप्प्रत्यये "द्वित्रिभ्यां तयस्याऽयज्वा" इत्यनेन विकल्पेन तयस्याऽयजादेश इति । (अपि) न च - नहि । अस्ति - वर्तते । परिकरालङ्कारः । “अलङ्कारः परिकरः साभिप्राये विशेषणे" । प्रकृतार्थेऽपि पादकार्थव्यञ्जकविशेषणत्वं तल्लक्षणं पर्य्यवसितं भवति । ध्वनावतिव्याप्तिवारणाय प्रकृतार्थेपि पादकेति हेत्वलङ्कारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः । परिकराङ्करालङ्कारवारणाय विशेषणेति ॥३१॥
स्तोतुं भवन्तमुचितं कवयन्ति केचित्
काव्ये कलां बहुविधां प्रथयन्ति केचित् । चित्रं विधाय मधुरं प्रविकल्पयन्ति
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ अन्वयः केचित्, उचितम्, भवन्तम्, स्तोतुम्, कवयन्ति, केचित्, काव्ये, बहुविधाम्, कलाम्, प्रथयन्ति, मधुरम्, चित्रम्, विधाय, प्रकल्पयन्ति, (केऽपि), विबुधाः, पद्मानि, परिकल्पयन्ति ॥३२॥
वृत्तिः केचित् - अनिर्दिष्टाभिधानाः कतिपयेऽनवद्यकल्पनाकल्पितान्तःकरणाः सहृदयमनीषिणः । उचितम् - समीचीनं यथा स्यात्तथा । भवन्तम् - अनल्पकल्पनापरिपूरितस्वान्तं मुनिभट्टारकं श्रीमन्तं त्वाम् । स्तोतुम् - वर्णयितुम् । कवयन्ति - काव्यं रचयन्ति । तेषां काव्यप्रणयनस्य मुख्यं प्रयोजनं भवतां स्तवनमेवेति भावः । केचित् - अन्ये कतिपये । काव्ये - लोकोत्तरवर्णननिपुणकविकर्मणि । इदमत्र तत्त्वम् - "सहृदयहृदयाह्लादिशब्दार्थमयत्वं काव्यत्वम्, अदोषसगुणसालङ्कारशब्दार्थो भयत्वं काव्यत्वमिति केचित्, वाक्यं रसात्मकं काव्यमित्यन्ये, रमणीयार्थप्रतिपादकशब्दत्वं काव्यत्वमित्यर्वाचीनाः, काव्यत्वं स्वीकुर्वन्ति । बहुविधाम् - अनेकप्रकाराम् । कलाम् - रचनाम्, “वैदेर्भी गौडीला पाञ्चालीत्यात्मानम् उपनागरिका परुषा कोमलात्मानम् । पदसंघटना रीतिरङ्गसंस्थाविशेषवत्" इति साहित्यदर्पणे विश्वनाथः। प्रथयन्ति - विस्तारयन्ति । चित्रम् - चित्रात्मकाव्यम् । उत्तममध्यमाधमभेदेन काव्यस्य त्रैविध्यं स्वीकुर्वन्ति मम्मटादयः तत्र "इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्यादिध्वनिर्बुधैः कथितः । अतादृशि
५२