SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ रामाय दशरथोऽयच्छद्राज्यं स तु वनं गतः । नरेण चिन्त्यते किञ्चिदन्यद् दैवेन चिन्त्यते ॥८९॥ परान कश्चित्पुष्णाति प्रीत्या, स्वार्थोऽत्र विद्यते । मांसलान् अजपालोऽजान् कुरुते धनलिप्सया ॥१०॥ तपोभङ्ग कर्तुमिच्छन् कामोऽदह्यत शम्भुना ।। महात्मनां व्रते विघ् चिकीर्षन् लघु नश्यति ॥११॥ पतिव्रतानां श्रेष्ठाऽऽसीद् द्रौपदी पञ्चवल्लभा । सामान्यनियमा नैव स्पृशन्ति महिमान्वितान् ॥९२।। अनेके कुर्वते यत्नं फलमेकेन लभ्यते । मज्जन्ति बहवोऽम्भोधौ कश्चिद्रनानि विन्दति ॥९३।। यक्षो मेघेन सन्देशं प्रेषयामास विह्वलः । अचेतनोऽपि दूतः स्याद्विरहोन्मथितात्मनाम् ॥९४|| नृत्यन्तं शिखिनं दृष्ट्वा विहगोऽन्योऽपि नृत्यति । अल्पाश्च महतां चेष्टामनुकुर्वन्ति मोहतः ॥१५॥ भृशं क्षीरोदधौ स्नात्वा काकः श्वेतो न जायते । तीर्थस्नानं न दुष्टानां हरते पापमव्ययम् ॥९६।। गुणवन्तमपि प्राज्ञं दोषीत्याहुनराः क्वचित् । लोकाह्लादकरं चन्द्रं वियुक्तास्तापकं विदुः ॥९७।। __ अमृतांशुं पूजयन्ति कलङ्किनमपि प्रजाः । गुणाधिक्ये दोषमेकं क्षमन्ते धीधना जनाः ॥९८।। दानी परुषवाक्योऽपि लोकैराश्रीयते सदा । तिग्मांशुरपि सूर्योऽसौ पूज्यते वृष्टिकारकः ॥९९।। वासुदेवं पूजयन्ति वसुदेवं न मानवाः । गुणैः श्रेष्ठः पूज्यतेऽत्र वयोज्येष्ठो. न गण्यते ॥१००॥ कृतमर्थान्तरन्यास-शतकं सुहृदां मुदे । विदुषा नागराजेन ललितैर्मधुरैः पदैः ॥ २०
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy