SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विमानमहरद् भ्रातुः प्रसभं रावणः खलः । दुष्टा बन्धोश्च सख्युश्च स्वं हरन्ति विना त्रपाम् ॥७६।। द्रौपद्या. वस्त्रमाकृष्य मृत्यु दुःशासनोऽवृणोत् । परनारी वह्निशिखां स्पृष्ट्वा कोऽत्र न दह्यते ॥७७॥ तपसा पार्वती लेभे पतिं लोकोत्तरं शिवम् । असामान्यं वस्तु लब्धं कर्तव्यं श्रद्धया तपः ॥७८॥ किं किं रूपं न दधते सन्तो लोकहितैषिणः । मत्स्यः कूर्मो वराहश्च भूत्वाऽवील्लोकमच्युतः ॥७९॥ पठित्वाऽद्याऽपि मोदन्ते प्राचां काव्यानि मानुषाः । तादृशं कर्म सुकवेर्यस्य स्याच्छाश्वतं फलम् ॥८०॥ ___ कवयो बहवः किन्तु महान्तो विरलाः क्षितौ । सर्वासु जातिषु क्षुद्रा भूयिष्ठास्तूत्तमाः क्वचित् ॥८१॥ न स्वार्थं गणयन्त्येव लोकस्योपचिकीर्षवः । विना प्रतिफलापेक्षां सततं द्योतते रविः ॥८२।। दूरस्थानां न भासन्ते दोषा भान्ति तु सद्गुणाः । चन्द्रमा दृश्यते रम्यो वृत्ताकारश्च दूरतः ॥८३॥ सान्दीपिनेर्गुरुकुले कृष्णोऽसेविष्ट सद्गुरुम् । विद्यार्थिना गुरोस्सेवा कर्तव्या भूतिमिच्छता ॥८४॥ सगरेण कृते यज्ञे मघवाऽश्वमपाहरत् । महान्तोऽपि स्वार्थसिद्धयै नीचकार्याणि कुर्वते ॥८५॥ अजपल्या इन्दुमत्या माला मरणदाऽभवत् । . क्रूरस्य मृत्योर्लोकेऽस्मिन् किंवा वस्तु न साधनम् ।।८६।। भगीरथस्य यत्नेन गङ्गायां स्नान्ति मानवाः । महात्मनां श्रमो लोके सर्वसौख्यस्य कारणम् ॥८७॥ विघ्ने जाते नैव कार्यं मध्ये त्यजति बुद्धिमान् । जहुना स्तम्भितां गङ्गामध्यानैषीद् भगीरथः ॥८८॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy