SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पार्थो विद्यागुरुं द्रोणं शकलीकृतवाञ्छरैः । युद्धे विस्मयते वीरैर्बान्धव्यं चाऽपि गौरवम् ॥६३|| शिखण्डिनं पुरस्कृत्य कृष्णो भीष्ममघातयत् । नोपायन्याय्यतां युद्धे गणयन्ति जिगीषवः ॥६४॥ मूकोऽपि देव्याः कामाक्ष्याः कटाक्षेणाऽभवत् कविः । देवतानां प्रसादेन सुलभाः सर्वशक्तयः ॥६५।। नौकायते मरावुष्ट्रो रूक्षो वक्रमुखोऽपि सन् । शक्तः कार्यविशेषे यस्तस्य रूपं न गण्यते ॥६६॥ चातुर्यं विन्दते बालः संसर्गेण विपश्चितः । ध्रुवो नारदसम्पर्काद्विष्णुभक्तोत्तमोऽभवत् ॥६७॥ देवाश्चरुमपेक्षन्ते पिबन्तोऽप्यमृतं सदा । नास्त्येव तृप्तिः कस्याऽपि लब्धुः सौख्यमनुत्तमम् ॥६८॥ व्रततिः पुष्प्यति क्वाऽपि व्याप्तः परिमलः पुरे । पुण्यकार्यफलं शीघ्रं सर्वैरप्यनुभूयते ॥६९।। रथश्चलति चक्राभ्यां न चक्रेण चरेत् क्षितौ । द्वयोर्योगः सदा श्रेयान् कार्यसिद्ध्यै भुवस्तले ॥७०।। एकाकी दिवमारूढस्तमो हन्ति दिवाकरः । तेजस्वी नाऽन्यसाहाय्यं कार्यसिद्धावपेक्षते ॥७१॥ कृष्णस्य श्वशुरो जातो भल्लूकोऽपि स जाम्बवान् । जातौ जातोऽपि कस्याञ्चिदुन्नतिं लभते गुणैः ॥७२॥ जरासन्धभयात् कृष्णो द्वारकां निर्ममेऽम्बुधौ । शिष्टा दुष्टभयाद्दूरे वस्तुमिच्छन्त्यनुद्धताः ॥७३।। सन्तः प्रतिज्ञां कुर्युश्चेत् पालयिष्यन्ति तां सदा । भीष्मः प्रतिज्ञां कृत्वोग्रां यावज्जीवमपालयत् ॥७४।। जगाम रामो विपिनं पित्राज्ञां शिरसा वहन् । स एक पुत्रः सुकृती पितुरुक्तं करोति यः ॥७५॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy