________________
तमिस्रायां भान्ति दीपाः प्रभाहीनास्तु ते दिवा ।
समस्तानां पदार्थानां कान्ति: कालावलम्बिनी ॥५०॥ श्वा शुन्यां वीक्षते रूपं रासभ्यां रासभस्तथा । सौन्दर्यं दृश्यते कामप्रेरितैः स्त्रीषु सर्वदा ॥५१॥
विष्णुर्लक्ष्म्यां शिवो गौर्यां ब्रह्मा वाण्यां च कामुकाः ।
का कथान्यस्य पुंसोऽत्र स्त्रीभिः सर्वो जितो नरः ॥५२।। नाऽर्चाहेतुर्जन्म नृणां लोके शीलं हि पूज्यते । पूज्यन्तेऽत्र सुशीलत्वात् कुण्डा अपि पृथासुताः ॥५३।।
गुणानभिज्ञरचितं स्तोत्रं लोके न हास्यते ।
बधिरेण कृता गानस्तुतिर्हास्याय कल्पते ॥५४॥ जिज्ञासते वधूरूपमन्धोऽप्युद्वहने रतः । नोज्झन्ति रूपसंमोहं नरा ज्ञात्वापि तत्क्षयम् ॥५५।।
काषायधारी संन्यासी वृद्धोऽपि धनमीहते ।
काञ्चनाशाविनिर्मुक्तो लोके क्वाऽपि न दृश्यते ॥५६।। धनेच्छया न तु प्रीत्या वैद्यो रुग्णान् परीक्षते । प्रवृत्तौ सर्वभूतानां लाभ एवाऽऽदिकारणम् ॥५७।।
चरुं यज्ञेषु वाञ्छन्तो देवा वृष्टिं वितन्वते ।
सर्वेषामपि सत्कार्ये स्वार्थो भवति गृहितः ॥५८।। दोग्ध्रीं धेनुं पूजयन्ति लोकेऽस्मिन्न तु वेहतम् । प्रयोजने विद्यमाने पूजा भवति नाऽन्यथा ॥५९॥
चञ्चलं चञ्चरीकं च कवयो वर्णयन्त्यमी । • सदा स्तुतौ प्रवृत्तानां यत्किञ्चिद्वस्तु सुन्दरम् ॥६०॥ छिन्नं पिष्टं च दग्धं च चन्दनं सुरभि सदा । कष्टेऽनिष्टे सङ्कटेऽपि पतितः सज्जनः सुहृत् ॥६१॥
भीष्मो वृद्धतमो युद्धे शौर्यं प्राकाशयत् परम् । वचो न कुण्ठयत्येव क्षात्रमोजो महात्मनाम् ॥६२॥
१७