________________
शबर्या वृद्धया दत्तं रामोऽभुङ्क्त फलं मुदा । जाति वयो वा नेक्षन्ते देवता भक्तवत्सलाः ॥३७॥
हनूमान् वाचि कुशलो राममैत्रीमविन्दत ।
सर्वेषां लभते सख्यं लोके वाक्कुशलो जनः ॥३८॥ यशस्कामैः प्रणेतव्यं सत्काव्यं रसपेशलम् । त्रिलोक्यां कालिदासस्य कीर्तिरद्याऽपि विद्यते ॥३९॥ .
जनैरलभ्यं यद्वित्तं तद् व्यर्थं दूरसंस्थितम् ।।
शैलमस्तकवृक्षस्थं भोक्त्रलभ्यं फलं वृथा ॥४०॥ आप्तुकामै रत्नराशिं वाधिराश्रीयते जनैः । लावण्यवान् सदा सर्वान् आकर्षति न संशयः ॥४१॥
त्रैलोक्यं विजितं येन स कामो भस्मसादभूत् ।
अल्पभूभागजेतारः किमु स्थास्यन्ति शाश्वताः ? ॥४२॥ चातकाः कूजितैः स्तुत्वा प्रार्थयन्ते बलाहकम् । सर्वे जीवनदं लोके याचन्ते स्तुतिपूर्वकम् ॥४३॥
दायं दायं जलं भूम्यै न तृप्यन्ति बलाहकाः ।
दत्त्वा दत्त्वाऽपि तृप्यन्ति याचकेभ्यो न दानिनः ॥४४॥ लता बिभर्ति पुष्पाणि भ्रमराकर्षणे रता । सर्वेऽपि ग्राहकाकृष्टयै शोभयन्त्यापणान् सदा ॥४५॥
अवर्णयददृष्ट्वाऽपि कालिदासः शकुन्तलाम् ।
कविभिर्वर्ण्यते सर्वं दृष्ट्वेवाऽदृष्टमद्भुतम् ॥४६॥ गृध्रः पश्यति दूरस्थं मांसं नैव तु वागुराम् । व्यापृतं वञ्चनाजालं न पश्यन्त्यामिषार्थिनः ॥४७॥
तपोमग्नोऽप्यालिलिङ्ग विश्वामित्रश्च मेनकाम् ।
कामातुरां स्त्रियं दृष्ट्वा को न स्खलति पूरुषः ? ॥४८॥ चञ्चलश्चञ्चरीकोऽपि पुष्पेभ्यो लभते मधु । अन्नदाने सुमनस: पक्षपातं न कुर्वते ॥४९।।