________________
स्वप्राणांस्त्यक्तुमुद्युक्तो दिलीपो गां रिरक्षिषुः । उत्तमाः किं न कुर्वन्ति रक्षितुं स्वाश्रितान् सदा ॥२४॥ दयानिधीनां लोकेऽस्मिन् नास्त्यदेयं महात्मनाम् । शिबिः स्वदेहमांसं च ददाववितुमण्डजम् ॥२५॥
बृहस्पतिसुतः शुक्रशिष्यत्वं स्व्यकरोन्मुदा । कार्यार्थी शत्रुपक्षेऽपि विष्वोद्देशं प्रसाधयेत् ॥२६॥ सर्वोऽप्यर्चति तिर्यञ्चं गरुडं विष्णुवाहनम् । सामान्योऽप्युत्तमासङ्गान्मान्यतां लभते ध्रुवम् ॥२७॥
मूढोऽपि सुप्रयत्नेन कवित्वं लभतेऽद्भुतम् । खगोऽपि पञ्जरे तिष्ठन् प्रयत्नाद्वाचमञ्चति ॥ २८॥ मशकोऽप्यात्मनो जीवं रक्षितुं यतते बहु । प्राणरक्षणयत्त्रोऽयं सर्वेषां प्राणिनां समः ॥२९॥
अश्वत्थामा द्रौपदेयान् पञ्च पुत्रान् न्यषूदयत् । ज्येष्ठान् हन्तुमशक्तोऽपि वंश्यान् नीचो जिघांसति ॥३०॥ यादवानां मिथो युद्धं रोद्धुं कृष्णोऽपि नाऽशकत् । विनाशोन्मुखमर्त्यानां नास्ति वारयिता प्रभुः ||३१||
प्राप्तगीतोपदेशोऽपि पार्थोऽरोदीत् सुते मृते । उपदेशं विपत्काले विस्मरत्यखिलो जनः ॥३२॥ सूर्योदये चन्द्रकान्तिर्हीना जाता क्षणे क्षणे । अधिकारिणि नूने स्युः पूर्वे शोभादिवर्जिताः ||३३||
दानशौण्डो न कुरुते पात्रापात्रविवेचनम् । वृक्षाः फलानि ददते योग्येभ्योऽन्येभ्य एव च ॥३४॥
प्रादर्शयत् स्वविनयं कालिदासमहाकविः । महान्तो नैव कुर्वन्ति गर्वं सर्वज्ञसंनिभाः ॥ ३५॥
कश्चिच्छृणोतु वा मा वा मधौ कूजति कोकिलः । कर्तव्यं निर्वहत्येव साधुः शंसानपेक्षया ||३६|
१५