________________
मत्स्याः प्राणान् संत्यजन्ति बडिशाग्रामिषेच्छया । जनाः सर्वे निगृह्यन्ते सुलभामिषलिप्सवः ॥११॥
भीमो विराटनगरे पाचकत्वमुपागमत् ।
विपत्काले तु या काचिद् वृत्तिराश्रीयते बुधैः ॥१२॥ दुर्योधनो ददौ राज्यं न भ्रातृषु मृतेष्वपि । दुष्टा धनं न त्यजन्ति नष्टेष्वप्यात्मबन्धुषु ॥१३॥
अत्याज्यं नास्ति लोकेऽस्मिन् सर्वलोकहितैषिणाम् ।
सत्यं दिदृक्षुः सिद्धार्थः पत्नीपुत्रादिकं जहौ ॥१४॥ कामी चन्द्रो गुरोर्भार्यां रमयित्वाऽभवत् क्षयी । स्त्रीव्यामोहो नैव जितो दैवतैरपि किं नरैः? ||१५||
धीरा गच्छन्ति जल्पत्सु क्षुद्रोपद्रवकारिषु ।
अवज्ञाय शुनां रावं गम्भीरो याति वारणः ॥१६॥ हेमघण्टाऽल्पशब्दैव कांस्यघण्टा महाध्वनिः । विद्वांसस्त्वल्पवचसो मूर्खास्तु बहुभाषिणः ॥१७||
कंसं जघान कृष्णोऽसौ बन्धुमप्याततायिनम् ।
दुष्टे दया न कर्तव्या कुलद्रोहिणि पापिनि ॥१८॥ तृणायाऽपि न मन्यन्ते बन्धून् राज्येप्सवो नराः । औरङ्गजेबो राज्यार्थी पितरं बन्धनेऽक्षिपत् ॥१९॥
देशं रिपुवशं चक्रू राजानोऽन्योन्यशत्रवः ।
अपरो विन्दते वित्तं परस्परविरोधिनाम् ॥२०॥ रामः पृथिव्यां कार्याणि समाप्य स्वपुरं ययौ । . कार्यादूर्ध्वं न तिष्ठन्ति श्रेष्ठाः परगृहे क्षणम् ॥२१॥
गङ्गायां स्नाति दृष्ट्वाऽपि तज्जलं मलिनं कुधीः ।
सम्प्रदायग्रहग्रस्ता नेक्षन्ते वास्तवीं स्थितिम् ॥२२॥ नाथूरामो महात्मानमवधीद् गान्धिमाग्रहात् । स्वच्छाशयानां जायन्ते शत्रवः सत्यवादिनाम् ॥२३।।