SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दृढरज्ज्वा श्रीकृष्णो बद्ध:, स्वस्वामिन एतादृशीं स्थिति विज्ञाय सैनिकाः इतस्ततो नश्यन्ति । श्रीकृष्णं जयसेन - विजयसेनौ पूर्वे यत्र पाण्डवा आसन् तत्रैव स्वशिबिरं प्रति नितवन्तौ ! वासुदेवस्य दयनीयां स्थितिं निरीक्षितुमशक्तिमान् भानुरपि निस्तेजसा पश्चिमे दिशि निमग्नः । सञ्जातः सूर्यास्तः । शनैः शनैर्वर्धते निशायाः प्रभावः । एकस्मिन् बृहत्काष्ठपिञ्जरे, पाण्डवैः सह श्रीकृष्णः 'अथ किं कर्तव्यं अस्माभिः ? अथवा केन प्रकारेण इतो बहिर्गमिष्याम, इति वार्तालापं करोति । तदा भीमेनोक्तं - यदि अस्मादृशाः समर्थयोद्धारोऽपि जयसेनं विजयसेनं च पराजेतुमसमर्थास्तर्हि न कोऽपि क्षमोऽस्मिन् विश्वे तं पराजयीकरणाय । भीमवचनं श्रुत्वा हरिणोक्तं - नोच्यं एतादृग्निराशाजनकं वचनम् । अधुनाऽपि विद्यते द्वारिकायामेव एकः सिंहपुरुषः, यो मदोन्मत्तशत्रुकुम्भिकुम्भं भेत्तुं सम्पूर्णरीत्यैव समर्थोऽस्ति । तस्य एकयैव गर्जनया सर्वेऽपि मदोन्मत्तहस्तिनो भीत भीतमूषका इव, शृगाला इव मृगा इव पलायिष्यन्ति । सर्वैः साश्चर्येण सानन्देन पृष्टं - कोऽस्ति सः महापुरुषः योऽस्माकं मुक्तये महेन्द्र इव समर्थोऽस्ति ? श्रीकृष्णेनोक्तं - समुद्रविजयपृथिवीपतिसूनुः, यदुवंशसमुद्रेन्दुः, यदुवंशकुलकेतुः पूज्यश्रीनेमिकुमारः । स एव एको महापुरुषोऽस्मदापन्निवारणाय समर्थोऽस्ति । अत्र न कोऽपि सन्देहः । अथ युधिष्ठिरेणोक्तं - तर्हि विना विलम्बेन एको विश्वसनीयानुचरस्तत्र प्रेषणीयः । ओम् इत्युक्त्वा श्रीकृष्णेन केनाऽपि प्रकारेण एको विश्वसनीयः चतुरदूतो विमुक्तिहेतवे प्रार्थनायै प्रेषितः । दूतस्तीव्रगत्या गुप्तरीत्या च श्रीनेमिकुमारसमीपं गतः । प्रणम्य च तेनोक्तं यद्, कुवलयदलविलासलासिकृपादृष्टिधारक ! भोः ! कुपालुदेव ! पाण्डवाः श्रीकृष्णश्च विकटसङ्कटे पतिताः । तेषां सङ्कटनिवारणायाऽस्मिन् विश्वे भवानेव एकः सिंहपुरुषोऽस्ति । अतो भवान् कृपां कृत्वा श्वस्तने दिने प्रात: शस्त्रास्त्रैः सज्जीभूय प्रचण्डसिंहनादं करोतु, मदोन्मत्तशत्रुकुम्भिनां कुम्भं च प्रस्फोट्य, विजयवरमालां वृणोतु, श्रीकृष्णादीनां दुःखं हरतु । भवादृशां महापुंसां जीवनं परोपकाराय एव भवति । " परदुःखेषु दुःखिनः परसुखेषु सुखिनः महात्मनः शरणं न व्यर्थम् अपि तु निश्चितेनैव सफलीभवति" । एतच्छ्रुत्वा सकलविश्वहितचिन्तकश्रीनेमिकुमारेणोक्तं - एवमेव भवतु, श्वः प्रातर् अहं प्रयाणं करिष्यामि । ततो द्वितीये दिने प्रणताशेषदेव-दानव - नरेन्द्रकिरीटांशुविराजितपादपङ्कजः, अशेषजनवन्द्यः, स्नेहनिर्भरमानसः, समस्तभूतसङ्घातशरणस्यैकाधारः, स्वशौर्यत्वेनाऽधरीकृतकोटिचक्रिबलः, वरस्यन्दनारूढः श्रीनेमिकुमारः प्रयाणं करोति । यथा कुरङ्गसमूहविसर्जनाय एक एव वरकेसरी अलं भवेत्, तथैव श्रीनेमिकुमार एकाकी एव सङ्ग्रामभूमिं प्राप्तः । तत्र दृष्टा: श्रीनेमिकुमारेण युद्धभूमौ जयसेनविजयसेनयोः शस्त्रास्त्रान्वितसैनिकगजाश्वरथानां कोटीसङ्ख्याः । ९९
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy