________________
जात: सूर्योदयः । पूरितः शखोद्घोषः । सेनानायकेनाऽऽक्रमणं कुर्वन्तु इत्यादेशः कृतः । ततो द्वयोरपि सेनयोः सैनिका अतिशयोत्साहेन परस्परं योद्धुं लग्नाः । ततो वरकर भैर्वरकरभाः, रथवरै रथवराः, कुञ्जरैः कुञ्जराः, अश्वैरश्वाः, सैनिकैः सैनिकाश्च सङ्घट्टितुमारब्धाः ।
सञ्जातं बहुजनमर्दनम् । ततः सस्पर्धं सतिरस्कारं जयसेनविजयसेनाभ्यामाहूताः पाण्डवा रणाय । पाण्डवैरपि स्वकीयायुधैर्दत्तं प्रत्युत्तरम् । महायोद्धानां परस्परं महाभयानकं युद्धं प्रेक्ष्य प्रक्षुभिताः सुभटाः, सर्वेऽपि महाबलिनां युद्धकौशलं पश्यन्ति स्म, स्व- स्वभूपस्योल्लासं च वर्धयन्ति स्म ।
1
अत्रान्तरे जयसेनविजयसेनयोर्युद्धकौशलं दृष्ट्वा पाण्डवाः किञ्चित् विक्षुब्धाः । जयसेन-विजयसेनाभ्यां चाऽनवरत बाणवर्षया पूरितमम्बरम् । तयोरतिशयगूढयुद्धव्यूहरचनया पाण्डवा जीवन्त एव बद्धाः सञ्जाता: । तेषां सैनिका इतस्ततो नष्टाः । पाण्डुपुत्राणामेतादृशीं दयनीयां स्थिति प्रेक्ष्य भानुरपि सलज्जमस्ताचलं प्रति प्रयातः ।
सञ्जातः सूर्यास्त:, स्थगितं युद्धं पाण्डवान् गृहीत्वा जयसेनविजयसेनौ गतौ स्वीयशिबिरं प्रति ।
अत्र पाण्डवानामेतादृशीं पराजयवार्तां श्रुत्वाऽत्यन्तं विस्मयान्वितो जातः श्रीकृष्णः । पुनः पुनस्तेन स समाचारदाता पृष्टो यद् - 'महाबलिष्ठयुधिष्ठिरादिपाण्डुपुत्राणामेतादृशी स्थितिः केन प्रकारेण निर्मिताः ? महाबलवान् भीमः तथा च धनुर्विद्यापारङ्गतोऽर्जुनस्तु समग्रे शस्त्रास्त्रविद्याकलापेऽतीव निपुणौ स्त: । तथाऽपि पाण्डवाः पराजिताः, एतत्तु महदाश्चर्यम् ! अतो मयाऽपि न प्रमादः कर्तव्यः । सावधानीभूय युद्धव्यूहरचना कर्तव्या येनाऽहं जयेयम्' ।
युद्धस्य द्वितीयदिने प्रातः स्वयं त्रिखण्डाधिपतिः श्रीकृष्णः सेनया सह निर्गतः ।
शूरवीराणां शौर्यमुत्साहं च वर्धयन् सञ्जातः सूर्योदयः । उद्घोषितः शङ्खारवः । प्रारब्धो .
महासङ्ग्रामः ।
संग्रामे धनुर्धारिणां बाणवर्षाऽऽषाढस्य मेघ इव भासते, खड्गैः खड्गानां सङ्घर्षेण सञ्जाता अग्निकणाः गगनाद् पतन्त्य उल्का इव भासन्ते ।
दिनस्य चतुर्थे यामे जयसेनविजयसेनौ श्रीकृष्णस्य सम्मुखमागतौ ।
तीव्रातितीव्रगत्या बाणवर्षया युद्धस्य शस्त्रास्त्रविद्याकलाकलापकौशलेन च ताभ्यां द्वाभ्यां श्रीकृष्णस्य सर्वशस्त्रास्त्रविद्या विफलीकृता । युद्धकौशलं दृष्ट्वा त्रिखण्डनरेशोऽपि अभिभूतो जातः । तेन स्वकीयमन्तिमशस्त्रस्वरूपं चक्ररत्नं स्मृतम् । तदैव जाज्वल्यमानं चक्ररत्नं प्रकटीभूतम् । सकोपेन श्रीकृष्णेन तच्चक्ररत्नं जयसेन-विजयसेनौ प्रति क्षिप्तं । किन्तु जयसेनेन तु तच्चक्ररत्नमपि बालक्रीडयैव लीलयैव गृहीतं चूर्णीकृतं च ।
साश्चर्येण श्रीकृष्णेन चिन्तितं, ननु अहं वासुदेवोऽस्मि उत न वा ? एतद्विचारे प्रचलति सति विजयसेनेन स्तम्भिनी विद्या प्रयुक्ता, तत्क्षणं श्रीकृष्णस्तत्रैव स्थिरो जातः, तीव्रगत्या जयसेनेन आगत्य
९८