SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ हरिणोक्तं-'प्रेषयाऽन्तस्तम्' । तथेति उक्त्वा क्षणमात्रवेलायां द्वारपालो दूतेन सह आगतः । पृष्टं तस्मै श्रीकृष्णेन - 'कोऽस्ति भवान् ? कुतः केन हेतुना कस्याऽऽज्ञया वाऽऽगतोऽस्ति ?' दूतेनोक्तम् - 'अनार्यदेशनरेशमहाराजजयसेनस्तस्य लघुबन्धुर्विजयसेनश्च विशालया चतुरङ्गचम्वा सहेतो योजनमात्रदूरमेव समागतोऽस्ति । ___महापराक्रमिनृपेण जयसेनेन ज्ञापितं यद् - यदि भवान् स्वकीयं क्षेमकुशलं निर्विघ्नं राज्यं च इच्छेत् तर्हि मदीयामाज्ञामविलम्बेन शिरोधार्यां करोतु । अस्माकं भूपतिः स्वकीयपराक्रमातिशयेन भवन्तं क्रीडामात्रेणैव विजेतुं समर्थोऽस्ति अतो भवान् तत्र तूर्णं गत्वा तेषां पदातिभावं स्वीकरोतु तेषां महाप्रसादेन च अत्रैव निर्भयेन राज्यपालनं करोतु' । दूतवचनं निशम्य सकोपेन कृष्णेनोक्तं - ‘मा उल्लङ्घय सीमानम् ! हे दूत ! सम्पूर्ण विश्वे मां जेतुं न कोऽपि समर्थः । कदाचित् पङ्गुर्गिरिं लङ्घयेत्, कदाचित् वामनः स्वबलेनैव तुङ्गवृक्षफलं प्राप्नुयात्, कदाचित् कुण्ठोऽपि अम्बुनिधि तरेत्, कदाचित् वह्निना शैत्यं, वारिणा उष्णत्वं, विषेण जीवनं भवेत्, कदाचिच्च भानुः पश्चिमे उदयेत् !... परंतु श्रीकृष्णं पराजेतुं न कोऽपि देवोऽपि क्षमः । दूतोऽवध्यो भवेत्, अत: शीघ्रमेवेतो निर्गम्यताम्' । क्रोधाध्मातं श्रीकृष्णं दृष्ट्वा दूतः किञ्चित् विक्षुब्धो जातः । तथाऽपि शौर्येण तेनोक्तं - 'भो भूपाल ! यदि भवान् भवदीयामेतादृशीं यशोगाथामखण्डितस्वरूपेण द्रष्टुमच्छेत् तर्हि शीघ्रातिशीघ्रं शरणं स्वीकुरुतां, चेन्न तर्हि अलमत्र वागाडम्बरेण । - सज्जीभवतु सङ्ग्रामाय । तत्रैव शौर्यं दर्शयितव्यम् । महायोद्धानां सङ्ग्रामे एव पराक्रमः परीक्ष्यते न तु वाक्चातुर्येण' - इत्युक्त्वा दूतो निर्गतः । श्रीकृष्णेन स्वसेनापतिसमक्षं प्रेक्ष्य गदितं - 'सेनापते ! तत्क्षणमेवाऽऽस्माकिनी चतुरङ्गसेना सज्जीक्रियताम्' । आवेशान्वितेन सेनाधीशेन स्वकीयकरवालमुत्कृत्योक्तं - कृपालुपूज्याः ! वयं सज्जा एव, युद्धविषये वयं सदैव सज्जाः । अत्र न काऽपि चिन्ता कार्या' । __ अत्राऽन्तरे हस्तिनापुरनरेशधर्मराजयुधिष्ठिरेणोक्तं - 'महाराज ! कौरव-पाण्डवानां युद्धसमये भवता वयं भृशमुपकृता, अतोऽधुना भवता न काऽपि चिन्ता कर्तव्या । वयं पाण्डवा एव युद्धाय गमिष्यामः', आस्माकिनी युद्धलीला भवता प्रमोदेन द्रष्टव्या । वयं लीलयैव जयसेनं विजयसेनं च विजित्य विजयवरमाला प्राप्स्यामः । यतो वरकेसरिणा वरकुञ्जरस्य पराभव एव उचितः, क्षुद्रजन्तून् हत्वा तु वरकेसरी स्वकीयामेव प्रतिष्ठामधरीकरोति । अतो भवता तु नैव गन्तव्यम् । वयमेव विजयवरमालां लब्ध्वा भवत्कण्ठारोपितां करिष्यामः' । धर्मराजवचनं निशम्य सतोषेण श्रीकृष्णेनोक्तं - 'धर्मराज ! अवसरोचितं भवद्वाक्यं सत्यमस्ति । एवमेव भवतु । करोतु प्रयाणं; शिवास्ते सन्तु पन्थानः, विजयीभवतु' । ____ द्वितीयदिने प्रातर्विशालसैन्येन सह युधिष्ठिरभीमार्जुनसहदेवनकुलाख्याः पञ्च पाण्डवाः, अन्येऽपि महायोद्धारश्च निर्गताः । नगराद् बहिर्दै अपि सेने सज्जीभूय स्थिते आस्ताम् ।
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy