SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ बले द्रव्यस्वभावयोः ।" इति मेदिनी । मुनयः श्रमणसाधवः । ब्राह्मण- वशिष्ठन्यायेनेत्थमुक्तिरवसेया । भवतः श्रीमतः । स्मरणात् - स्मृतेः । अध्यात्मवर्त्मनि आध्यात्मिकमार्गे । गताः - श्रिताः, अध्यात्ममार्गसमारूढा इति यावत् । समाधिभरभङ्गकरीम् - अर्थमन्त्रावभासनरूपध्येयाकारनिर्भासात्मक ध्यानं समाधिस्तस्य भरोऽतिशयस्तस्य भङ्गं विनाशं करोतीति समाधिभरभङ्गकरी तान्तथा । " ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततेः । समाधिस्तु तदेवार्थमात्राभासनरूपकम् " ११८५ ॥ इत्यभिधानचिन्तामणिः । भीतिम् - भयम् | त्यजन्ति मुञ्चन्ति । त्रासम् - औत्पातिकभयम् । विहाय - हित्वा । व्रजन्ति मधुकर्य्यादिसमुचितोद्देशं गच्छन्तीति ॥४०॥ - - दारिद्र्यदुःखदुरितोद्भवदीनदीना दुष्कर्मणामुदयतः प्रहतप्रभावाः । त्वत्सन्निधानधृतसंयमशुद्धरूपा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ अन्वयः दुष्कर्मणाम्, उदयतः, प्रहतप्रभावाः, दारिद्र्यदुःखदुरितोद्भवदीनदीनाः, मर्त्याः, त्वत्सन्निधान धृतसंयमशुद्धरूपाः, मकरध्वजतुल्यरूपाः भवन्ति ॥४१॥ वृत्ति: दुष्कर्मणाम् - मोहनीयादीनां घातिकर्मणाम् । इदमत्र तत्त्वम् - बन्धोऽष्टविधं कर्म, तत्र घातिकर्म चतुर्विधम्, तद्यथा - ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति, तथा चत्वार्यघाति कर्माणि भवन्ति तद्यथा - वेदनीयं नामिकं गोत्रिकमायुष्कञ्चेति । तत्र सम्यग्ज्ञानं न मोक्षसाधनं न हि ज्ञानाद्वस्तुतः सिद्धिरतिप्रसङ्गादिति विपर्य्ययो ज्ञानावरणीयं कर्मोच्यते, आर्हतदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीय कर्म, बहुषु विप्रसिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म, मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म तानीमानि श्रेयोहन्तृत्वाद्धातिकर्माण्युच्यन्ते इति । उदयत: - प्रादुर्भावात् । प्रहतप्रभावा: - विनष्टानुभावाः । दारिद्र्यदुःखदुरितोद्भवदीनदीना: - दारिद्र्यदुःखनिदानपापोदयाति दुर्विधाः । मर्त्याः - मनुजाः । त्वत्सन्निधानधृतसंयमशुद्धरूपाः - त्वत्सन्निधाने श्रीमद्भवत्पार्श्वे धृतसंयमेन विशुद्धचारित्रे शुद्धं रूपं स्वरूपं यैस्ते तथा । मकरध्वजतुल्यरूपाः - कामदेवसमानकान्तयः । "मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः मकरध्वज आत्मभूः" इत्यमरः । भवन्ति - जायन्ते । काव्यलिङ्ग मुपमा चाऽलङ्कारः ॥४१॥ जैनागमानुभवभाविततावकीना शैलीं विभावमथनीं नु यथाप्नुवन्ति क्षीणात्मभावजनकोपशमातिपीनाम् । सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ ५८
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy