SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अन्वयः ये, जैनागमानुभवभाविततावकीनाक्षीणात्मभावजनकोपशमातिपीनाम्, विभावमथनीम्, शैलीम्, आप्नुवन्ति, (ते), सद्यः, स्वयम्, विगतबन्धभयाः, भवन्ति ॥४२॥ वृत्तिः ये - बुद्धिविषयाः । जैनागमानुभवभाविततावकीनाक्षीणात्मभावजनकोपशमातिपीनाम् - जिनानामर्हतामिमे जैनास्ते च ते आगमाः कल्पसूत्रप्रमुखशास्त्राणि जैनागमास्तेषामनुभवो यथार्थज्ञानं जैनागमानुभवस्तेन भावितः संस्कारितो जैनागमानुभवभावितस्तेन तावकीनेन - भावत्केन अक्षीणात्मभावजनकोपशमेन - परिपुष्टपरमात्मतत्त्वजननप्रशमेन अतिपीना - अत्यन्तं परिपुष्टा जैनागमानुभवभाविततावकीना क्षीणात्मभावजनकोपशमातिपीना तां तथा । विभावमथनीम् - विरुद्धश्चाऽसौ भावोऽभिप्रायो रत्यादिको वा विभावस्तं मनाति विलोडयतीति विभावमथनी, तान्तथा । शैलीम् - चारित्रादिपरिपालनरीतिम् । आप्नुवन्ति - अधिगच्छन्ति । (ते - बुद्धिविषयाः प्राप्ततादृशशैलीकाः पुरुषाः) सद्यः - तत्क्षणम् । "सहसैकपदे सद्योऽकस्मात् स यदि तत्क्षणे" ६।१६७॥ इत्यभिधानचिन्तामणिः । स्वयम् - आत्मना । विगतबन्धभयाः - विगतं विनष्टं बन्धभयमष्टविधकर्मजनितसाध्वसं येषान्ते तथा । भवन्ति - जायन्ते । विगतबन्धीभावे तादृशशैलीप्रापणस्य हेतुतयाऽभिधानात् काव्यलिङ्गमलङ्कारः । ॥४२॥ पुण्यानुबन्धिसुकृतं समुपाय॑ प्राज्यं प्राप्नोति शाश्वतमरं वरमात्मराज्यम् । सद्भावभावितमना विशदं मिमीते । यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ अन्वयः यः, मतिमान्, तावकम्, इमम्, स्तवम्, अधीते, सद्भावभावितमनाः, विशदम्, मिमीते, (सः), पुण्यानुबन्धि, प्राज्यम्, सुकृतम्, समुपाय॑, अरम्, शाश्वतम्, वरम्, आत्मराज्यम्, प्राप्नोति ॥४३।। वृत्तिः यः - बुद्धिविषयः । मतिमान् - प्रशमितबुद्धिः । मानव इति शेषः । तावकम् - तव श्रीमतो भवतोऽयन्तावकः तन्तथा । इमम् - प्रत्यक्षसमुपस्थितम् । स्तवम् - स्तोत्रम् । अधीते - पठति, चिन्तयति, विचारयति, परामृशति । सद्भावभावितमनाः - सता समीचीनेन भावेनाऽभिप्रायेण भावितं संस्कारितं मनोऽन्तःकरणं यस्य स तथा । विशदम् - विशुद्धम् यथा स्यात्तथा । मिमीते - जानाति । सः - बुद्धिविषयः । यच्छब्दस्योत्तरवाक्यगतत्वेन पूर्ववाक्ये तच्छब्दानुपादानेऽपि न क्षतिरित्यनुसन्धेयम् । पुण्यानुबन्धिसुकृतप्रयोजकम् यत्पुण्यमुत्तरोत्तरं पुण्यमेव प्रयोजयति तदिति भावः । प्राज्यम् - प्रचुरम् । सुकृतम् - पुण्यम् । समुपायं - लब्ध्वा । अरम् - शीघ्रम् । "लघु क्षिप्रमरं द्रुतम्" इत्यमरः । शाश्वतम् - सनातनम् नित्यमिति यावत् । वरम् - अभीष्टम् । आत्मराज्यम् - स्वराज्यम् सिद्धावस्थितिमिति यावत् । प्राप्नोति - व्यधिगच्छति, लभते इति यावत् । भवदीयस्तवाऽध्ययनात् सम्यग्दर्शनादिक्रमेण गुणश्रेणीमुत्तरोत्तरामधिरूढा भविका भव्यं मोक्षपदमधिकुर्वन्तीति भावः ॥४३॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy