________________
भक्तामरान्तिमपदानुगतिं विधाय
- सूक्तामृतोद्गमसुपुण्यमलं निधाय । त्वां सद्भुरन्धरमुपैति नु यः सलक्ष्मी
स्तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४४॥ अन्वयः भक्तामरान्तिमपदानुगतिम्, विधाय, सूक्तामृतोद्गमसुपुण्यम्, अलम्, निधाय, यः, सलक्ष्मीः, सद्धुरन्धरम्, त्वाम्, उपैति नु, मानतुङ्गम्, तम्, लक्ष्मीः , अवशा, समुपैति ॥४४॥
वृत्तिः भक्तामरान्तिमपदानुगतिम् - श्रीमानतुङ्गाचार्यविरचितसमस्तलोकप्रसिद्धभक्तामरस्तोत्रान्तिम पादसम्बन्धम् । विधाय - कृत्वा । सूक्तामृतोद्गमसुपुण्यम् - सूक्तामेवाऽमृतं पीयूषन्तत उद्गम उत्पत्तिर्यस्य तादृशञ्च तत्सुपुण्यं सुकृतश्रेष्ठं सूक्तामृतोद्गमसुपुण्यन्तत्तथा। अलम् - अत्यर्थम् । “अलं भूषण पर्याप्तिवारणेषु निरर्थके" इति मेदिनी। निधाय - धारयित्वा । स्थित इति शेषः । यः - बुद्धिविषयः । सलक्ष्मीः - सती समीचीना लक्ष्मीः ज्ञानादिसम्पत्तिर्यस्य स तथा । सद्भुरन्धरम् - सतां सत्सु वा, धुरन्धरः सर्वभारग्राहकः सद्धरन्धरस्तं तथा । सन् सज्जनः धुरन्धरस्तदभिधानं पंन्यासप्रवरश्रीधुरन्धरविजयगणिर्यस्य स सद्धरन्धर स्तन्तथा । त्वाम् - श्रीमन्तं, भवन्तम् । उपैति - प्राप्नोति । - - निश्चयेन । अव्ययानामनेकार्थत्वात् । मानतुङ्गम् - मानेन सन्मानेन तुङ्ग उन्नतो मानतुङ्गोऽतिसन्मानभाजनन्तन्तथा । तम् - तादृशं जनम् । लक्ष्मी: - कमला । अवशा - पराधीना, तदधीनेति यावत् वशंवदेति हृदयम् । समुपैति - प्राप्नोति । इति शम् ।।
६०