SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ त्वत्कीर्तनात् - भवदीयाभिधानकर्मकभूयोभूयःसमुच्चारणात् । आशु - शीघ्रम् । "लघु क्षिप्रमरं द्रुतम् । सत्वरं चपलं तूर्णमविलम्बितमाशु चे"त्यमरः । भिदाम् - भेदम्, विदीर्णताम्, विनाशमिति यावत् । उपैति - प्राप्नोति । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकोपमालङ्कारः ॥३८।। श्रीजैनशासनवरोत्तमजात्यवंशा ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः । स्वात्मानुरूपमधु मानसमाश्रयन्ते त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ अन्वयः श्रीजैनशासनवरोत्तमजात्यवंशाः, ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः, त्वत्पादपङ्कजवनायिणः, स्वात्मानुरूपमधु, मानसम्, आश्रयन्ते, ॥३९॥ वृत्तिः श्रीजैनशासनवरोत्तमजात्यवंशाः - श्रीजैनशासनं सुन्दरपरमार्हतागमसाम्राज्यमेव वरः श्रेष्ठ उत्तमः समीचीनो जात्यो विशिष्टजातीयो - वंशोऽन्ववायो येषान्ते तथा । "वंशः पुंसि कुले वेणौ पृष्ठावयववर्गयोः" इति मेदिनी । ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः - ज्ञानञ्च क्रिया च ज्ञानक्रिये त आत्मा स्वरूपं यस्य तत्, शुचिपक्षयुगलं-श्वेतपत्रद्वितयं येषान्ते आत्मान एव हंसा: मरालास्तथा । त्वत्पादपङ्कज वनाश्रयिणः - त्वत्पादौ भवदीयचरणावेव पङ्कजे त्वत्पादपङ्कजे तयोर्वनं त्वत्पाद एव पङ्कजवनम्, त्वत्पाद पङ्कजवनम्, तदाश्रयन्ते तच्छीलास्तथा । "सुप्यजातौ णिनिस्ताच्छीलो" इति णिनिः । सन्तः । स्वात्मानु रूपमधु - स्वेच्छानुसारमकरन्दम् । “मधु पुष्परसे क्षौद्रे मद्ये ना च मधुद्रुमे" इति मेदिनी । मानसम् - मानसं चित्तमेव तदाख्यं वा सरोवरम् । “मानसं सरसि स्वान्ते" इत्यमरः । आश्रयन्ते - अवलम्बन्ते । अत्र परम्परितरूपकालङ्कारः । यत्र चाऽऽरोप एवाऽऽरोपान्तरस्य निमित्तं तत्परम्परितम् ॥३९।। अध्यात्मवर्त्मनि गता मुनयोऽल्पसत्त्वा दुःश्वापदादिपरिरुद्धपथा अतत्त्वाः । भीति समाधिभरभङ्गकरीं त्यजन्ति त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अन्वयः अतत्त्वाः, दुःश्वापदादिपरिरुद्धपथाः, अल्पसत्त्वाः, मुनयः, भवतः, स्मरणात्, अध्यात्मवर्त्मनि, गताः, समाधिभरभङ्गकरीम्, भीतिम्, त्यजन्ति, त्रासम्, विहाय, व्रजन्ति ॥४०॥ वृत्तिः अतत्त्वाः - नास्ति तत्त्वं ब्रह्मयाथार्थ्यं वा येषान्ते तथा । "तत्त्वं ब्रह्मणि याथार्थ्य" इत्यमरः । दुःश्वापदादिपरिरुद्धपथाः - दुष्टाश्च ते श्वापदादयो हिंस्रव्यालादयोः दुःश्वापदादयस्तैः परि सर्वतोभावेन रुद्धोऽवरुद्धोऽवष्टब्ध इति यावत् पन्था मार्गो येषान्ते तथा। "हिंस्रेऽस्मिन् व्यालः श्वापदोऽपि च" ४।२८२।। इत्यभिधानचिन्तामणिः । अल्पसत्त्वाः - अल्पं मन्दं सत्त्वं बलं येषान्ते तथा । "सत्त्वं गुणे पिशाचादौ
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy