________________
• अद्य भारते परदेशे चाऽनेकेषु नगरेषु जैनमतानुयायिभिरन्यधर्ममतानुयायिभिश्च संचालिता बहवः पुस्तकालया विद्यन्ते । तत्र जैनभाण्डागारेषु जैनपुस्तकैः सह न्याय-बौद्ध-चार्वाक-पातञ्जल-मीमांसकवेदान्त-साङ्ख्यादीनां सर्वेषां मतानां विविधविषयानां पुस्तकानि अद्याऽप्युपलब्धानि भवन्ति । तथैव तत्तद्दर्शनविषयसम्बन्धिंन्यः प्राचीना हस्तलिखितप्रतयो जैनभाण्डागारेष्वद्याऽपि प्राप्यन्ते । ता अपि सुचारुस्थित्यां प्राप्यन्ते । ___ अथ अन्यधर्मानुयायिभिः संचालितेषु पुस्तकालयेषु किं जैनमतसम्बन्धिन्यः प्राचीनप्रतयः पुस्तकानि च अवाप्यन्ते ? भोः ! अन्यत्र तु जैनप्रती: जना नाशयन्ति स्म ।
• जैनपुस्तकालयेषु परधर्ममान्यमन्दिराणां विशिष्टचित्र-कला-शिल्पादीनां पुस्तकान्यपि संगृह्यन्ते ।
• पूर्वकालीना जैनाचार्याः सर्वदर्शनसाहित्यमधीयते स्म । सा परम्पराऽद्यपर्यन्तं वर्तते । अद्याऽपि प्रायः सर्वेऽपि जैनसाधवो दुराग्रहं विमुच्य मुक्तमनसाऽन्यदर्शनीयानि शास्त्राणि तत्तद्दर्शनविदां पण्डितानां समीपे पठन्ति । तथैव तेन सह तुलनात्मकाभ्यासमपि कुर्वन्ति जैनमुनयः ।
अथ कोऽन्यमतावलम्बी साधुजैनग्रन्थान् अधीते ? जैनदर्शनाभ्यासार्थं जैनपण्डितान् के आह्वयन्ति ?
• अद्याऽपि जैनमुनयोऽन्यदर्शनीयानि विविधशास्त्राणि प्रकाशयन्ति । वदतु ! क उदारः? को वा संकुचितः ? पूर्वकालतो जैनसमाजः संप्रदायनिरपेक्षोऽस्ति ।
वैक्रमीये द्वादशे शतके कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यो जातः । विश्वविख्यातेनैतेन सूरिणा जिनशासनस्योपरि महानुपकारः कृतोऽस्ति । एतेन सूरिणा चौलुक्यवंशीयौ सिद्धराजजयसिंहः कुमारपालश्चेति द्वौ राजानौ प्रतिबोधितौ स्तः । प्रतिबोधिताभ्यामेताभ्यां राजभ्यां गूर्जरराज्यस्य समृद्ध्यर्थं शान्त्यर्थं च बहूनि सत्कार्याणि कारितानि सन्ति तेन सूरिणा । __गूर्जरराज्ये हिन्दुजनानां पवित्रं विश्वप्रसिद्धं सोमनाथमहादेवमन्दिरमस्ति । तन्मन्दिरं तत्तत्काले इस्लाममतीयशासकैरनेकशो लुण्टितं नष्टं च । कुमारपालराजस्य शासनकाले कृतजीर्णोद्धारस्य महादेव मन्दिरस्य प्रतिष्ठाकालः आगतः । तदा राज्ञा तत्प्रतिष्ठामहोत्सवे आगन्तुं श्रीहेमचन्द्राचार्यसूरीश्वराया-ऽऽमन्त्रणं प्रदत्तम् । सूरिणा स्वीकृतमपि । प्रतिष्ठाकाले स्वयं स सूरीश्वरस्तत्राऽऽगतवान् । असङ्ख्यजनानां मध्ये तेन सूरिणा सोमनाथमहादेवस्य प्रतिष्ठा कृता, स्तुतिरपि च कृता ।
प्रशान्तं दर्शनं यस्य, सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते । महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राय-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् ॥ .
७५