SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६. डो. मधुसूदन ढांकी-महोदयः ७. डो. नगीनदास जे. शाह-महोदयः ८. डो. सत्यरञ्जन बेनर्जी-महोदयः ९. श्रीजयन्तभाई कोठारी-महोदयः १०. श्रीकनुभाई जानी-महोदयः ११. श्रीलाभशङ्कर पुरोहित-महोदयः १२. श्रीहसुभाई याज्ञिक-महोदयः १३. डो. वसंतभाई परीख-महोदयः इदानीं श्रीनलिनी-बलबीरविदुष्याः सन्मानं कृतम् । • उत्तमानां साहित्यविषयकपुस्तकानां प्रकाशनं करणीयम् । अद्यावधि विविधासु भाषास्वनेके ग्रन्थाः प्रकाशिताः । • राष्ट्रीयकक्षायाः परिसंवादा आयोजनीयाः । विविधविषयमनुलक्ष्याऽद्यावधि एतया संस्थया बहवः परिसंवादा आयोजिताः सन्ति । तत्राऽपि वटपद्र(वडोदरा)नगरे, महुवा(लघुकश्मीर)पत्तने तथा गोधरानगरे द्विदिवसीयपरिसंवादा संयोजिता आसन् । तदा जैनाः शैवाः पुष्टिसाम्प्रदायिकाः इस्लाममतीयाः ख्रिस्तीयाः पारसीयाः आदिवासिनश्च विद्वज्जना आगत्य स्व-स्वधर्मविषयकं साहित्यं पठन्ति स्म । तदुपरि जैनाचार्यनिश्रायां मुक्तमनसा चर्चामपि तत्रत्या जना अकुर्वन् । आश्चर्यं त्वेतद्, आदिवासिसमाजस्य मुख्यधर्मगुरुस्तत्र जैनस्थानके बहिः कुत्राऽपि न क्रियमाणं गुह्यं तत्पट्टविधि सभासमक्षं दर्शयति स्म । __ भोः ! एतादृशं क्रान्तिकरं सम्प्रदायनिरपेक्षं कार्यं नाऽन्यः, किन्तु जैनाचार्येण श्रीशीलचन्द्रसूरिणैव कृतमासीत् । तथा परिसंवादस्य सर्वोऽपि यातायातवेतन-पुरस्कार-भोजनादिव्ययो जैनश्रावकैरेव कृत आसीत्, एतन्न कदाऽपि विस्मर्तव्यम् । तत्पश्चात् तैविद्वज्जनैः वाचितानां लेखानां पुस्तकमपि प्रकाशितमस्ति, तेन सूरिणैव । महुवापत्तने आयोजितपरिसंवादे आगतेन पूज्यश्रीमोरारिबापु-महात्मना कथितम् - जैनस्थानके एष आयोजित: परिसंवादः सम्प्रदायनिरपेक्षतायाः श्रेष्ठमुदाहरणमस्ति । एतदायोजनं महत् क्रान्तिकरमस्ति । अस्याऽनुकरणं सर्वधर्मगुरुभिः करणीयमस्ति, इति । किमेषा उदारदृष्टिः सम्प्रदायनिरपेक्षता च कथ्यते न वा ? पूर्वकालत एव जैनसमाज उदारः सम्प्रदायनिरपेक्षश्चाऽऽसीत्, इति कथने नाऽतिशयोक्तिरस्ति । दर्शयामि अहम् - ७४
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy