________________
प्रदत्ताः सन्ति ।
एतादृश्या विश्वसन्माननीययाः फ्रान्सदेशीयविदुष्याः सन्मानं भारतदेशे जैनाचार्यप्रस्थापितसंस्थया जैनाचार्यनिश्रायां भवेत्, एतत्तु न केवलं जैनानाम्, अपि तु समग्रभारतदेशस्याऽऽर्यसंस्कृतेश्च गौरवप्रदा घटनाऽस्ति । चन्द्रकप्रदानं तु अनेकाभिः संस्थाभिः क्रियते, किन्तु जैनाचार्यप्रेरणयाऽन्यदेशीयअन्यमतानुयायिविदुष्याः सन्मानं विधीयते, एतत्तु महदाश्चर्यमेवाऽस्ति ।।
सम्प्रदायनिरपेक्षताया इतोऽधिकं श्रेष्ठमुदाहरणं किं स्यात् ? सम्प्रदायनिरपेक्षतायाश्चर्चा सर्वधर्ममान्यसर्वधर्मगुरुभिरग्रणीजनै राजसिंहासनस्थितै राजनेतृभिश्चोच्चैराराटिं कुर्वद्भिः सदा विधीयते, किन्तु कैः क्रियते आचरणम् ? अन्येषां निन्दार्थं स्वप्रशंसार्थं च न लिखामि, अपि तु जैनसमाजो जैनसाधुश्च कीदृशीमुदारदृष्टिं समाचरतीति जनसमाजस्य ज्ञापनार्थमेव लिखाम्यहम् । अद्य सर्वत्र 'जैनाः सङ्कुचिता रूढिवादिनश्च सन्ति, ते जैनमतं विना नाऽन्यत् किमपि स्वीकुर्वन्ती'ति प्रबलमताग्रहोऽस्ति । तेषां मताग्रहिनामेषोत्तररूपा घटनाऽस्ति । एतैर्गुरुभिरेतादृशं नैकमेव कार्यं कृतं किन्तु अद्यावधि एतादृशान्यनेकानि कार्याणि कृतानि सन्ति । तान्यत्र वर्णयामि । ____ अद्य गूर्जरराज्यं संस्कारदृष्ट्या नीतिदृष्ट्या चेति सर्वरीत्याऽतीव समृद्धमस्ति । अस्माकं समीपेऽद्य स्वकीयं व्याकरणमस्ति । एतस्याः सर्वसमृद्धेः कारणमस्ति - एष गुरुः कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यः । एनं गुरुं विना स्वतन्त्रास्तित्वधारकस्य गूर्जरराज्यस्य कल्पनैवाऽशक्याऽस्ति । तद्गुरोर्नवमजन्मशताब्दीमुपलक्ष्य शासनसम्राट्-तपागच्छाधिपति-श्रीविजयनेमिसूरीश्वर-प्रशिष्यश्रीविजयसूर्योदयसूरीश्वरस्याऽऽशिषा, तच्छिष्यश्रीविजयशीलचन्द्रसूरेः सत्प्रेरणया चैषा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृतिशिक्षणसंस्कारनिधिट्रस्टेतिनाम्नी संस्था प्रस्थापिता । एतैर्गुरुवर्यैः स्वजीवने श्रीमहावीरस्वामिनोऽनेकान्तवादसिद्धान्तश्चरितार्थीकृतोऽस्ति । एते गुरवः सम्प्रदायनिरपेक्षमानसं संसेवन्ते । तत एवैतादृशं कार्यं कर्तुं समर्था भवन्त्येते गुरवः । गुरुवर्यैः संस्थापितायाः संस्थाया शुभाशयाः सम्यगनुसरणीयाः सन्ति ।
• कस्या अपि भाषायाः सत्साहित्यस्य सेवां यः कोऽपि कुर्यात्तस्य सन्मानं करणीयम् । आस्तां स कस्याऽपि अन्यधर्मस्याऽनुयायी स्यात् ।
एतया संस्थयाऽद्यावधि त्रयोदशानां साक्षरजनानां सन्मानमकारि । तत्र - १. अध्यापकः श्रीशान्तिलाल गुलाबचन्द शाह-महोदयः
२. पं. श्रीलक्ष्मणभाई हीरालाल भोजक-महोदयः ३. पं. श्रीदलसुखभाई मालवणिया-महोदयः ४. डो. हरिवल्लभ भायाणी-महोदयः ५. डो. उमाकान्त पी. शाह-महोदयः
७ः