________________
महाज्ञानं भवेद्यस्य, लोकालोकप्रकाशकम् । महादया दमो ध्यानं, महादेवः स उच्यते । महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते ॥
एवं चतुश्चत्वारिंशत्श्लोकप्रमाणं श्रीमहादेवस्तोत्रं तदैव महादेवस्तुतिकरणव्याजेन तेन श्रीहेमचन्द्रसूरिणा रचितम् । अद्याऽपि तत् स्तोत्रं प्राप्यते ।
प्राप्त परमार्हत बिरुदेन हेमचन्द्रसूरीश्वरस्य परमोपासकेन तेन कुमारपालेन नैकानि नूनानि शिवमन्दिराणि कारितानि तथा केषाञ्चित् शिवमन्दिराणां जीर्णोद्धारा कारिताः ।
ततः त्रयोदशशतके वस्तुपालो महामन्त्रीश्वरः सञ्जातः । एतेन मन्त्रिणाऽनेकशः स्वबुद्धि-कौशल्येन गूर्जरराज्यस्य रक्षाऽकारि । एष यथा राजनीतिज्ञ आसीत्तथैव शास्त्रज्ञोऽप्यासीत् । एतेन संस्कृतभाषानिबद्धानि शास्त्राण्यपि रचितानि सन्ति । एवमेष जैनशासनस्याऽग्रणीः श्रावक आसीत् । एतेन जिनशासनस्य बह्वी प्रभावना कृताऽऽसीत् । तत एव अनेकैर्महद्भिर्जुनाचार्यैः प्रशस्तिः कृताऽऽसीत् महामन्त्रीश्वरस्याऽस्य । एतादृशेन जैनधर्मे परमश्रद्धालुना वस्तुपालेन नैकम्, अपि तु बहूनि शैवमन्दिराणि कारितानि, तथा पुरातनानां शैवमन्दिराणां जीर्णोद्धाराः कारिताः । ततोऽप्यधिकं त्वेतद् यद्, एतेन मन्त्रिणा चतुरशीतिः यवनधर्मस्थानानि (मस्जिदा) निर्मापितानि
अत्र साम्प्रदायिकदृष्टिः कुत्र दृश्यते ?
एवं तत्तत्कालीना अनेके जैनाचार्याः श्रावकाश्च सम्प्रदायनिरपेक्षाणि बहूनि सत्कार्याणि चक्रुः । ऐतिहासिकग्रन्था अस्य कथनस्य सत्यतां प्रमाणीकुर्वन्ति ।
इदानीन्तनकालेऽपि अहम्मदावादनगरे 'हठीभाई वाडी' नामकोद्याने श्रीहरकोरशेठाणी-महोदयया स्वसूक्ष्मदृष्ट्या कारितमेकं जिनमन्दिरं विद्यते । शिल्प-कलादिदृष्ट्या तज्जिनमन्दिरं विश्वप्रसिद्धमस्ति । दर्शनीयस्थानानां गणनायामस्य मन्दिरस्याऽपि गणना क्रियते । तत एव परदेशतो भारते देशे आगच्छन्तः सर्वेऽपि परदेशीयजना अस्य मन्दिरस्य दर्शनार्थमवश्यंतयाऽऽगच्छन्त्येव । तन्मन्दिरस्य मुख्यद्वारस्य बहिर्भागे महादेवमन्दिरमस्ति । तथा मन्दिरान्तः प्रवेशे कृते सति अग्रभागे एव कृष्णवासुदेवस्य मूर्तिः वर्तते । तत्र श्रावणकृष्णस्याऽष्टमीतिथिदिने महामहोत्सवो जायते, तथा सहस्राधिकं जनाः दर्शनार्थमप्यागच्छन्ति । न कैरपि जैनैविरोधो विधीयते । ।
किञ्च - पञ्चमहालप्रदेशे गोधरानगरसमीपस्थेऽस्माकं गुरूणां श्रीविजयसूर्योदयसूरिणां दीक्षाभूमौ श्रीपरोलीतीर्थमध्ये यदुवंशीयश्रीनेमनाथपरमात्मनः पुराणं मन्दिरमस्ति । तन्मन्दिरस्यैकतः शङ्करस्य तथाऽपरतो लक्ष्मीनारायणस्य च मूर्तिरद्याऽपि विद्यते । जैनसंस्थयाऽस्य मन्दिरस्य रक्षणं सञ्चालनं च क्रियते ।
७६