SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पीत्वाऽऽनन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।।५।। यो दूरं विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते सदा सन्मतिम् । भक्त्या सद्गुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥६॥ अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधरनिर्घोषं विकलीकरोति वचसां घोषो महान् यस्य वै । नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः !. प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥७॥ धीमास्तत्पदपद्मयुग्ममधुलिड् वादीभकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिविज्ञानिचूडामणिः । विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्या: ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥८॥ कृतकर्मविनाशाय वासाय शिवसद्मनः । चतुरविजयेनैत-दकृताऽमलमष्टकम् ॥९॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy