SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जैनरन-व्याख्यानवाचस्पति-श्रीलब्धिविजयानां गुणस्तुत्यष्टकम् मुनिचतुरविजयः जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्ध जनिः, मोती यज्जननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥१॥ नन्देष्वङ्कधराप्रमे(१९५९) स्थितवति श्रीविक्रमाद्वत्सरे, दीक्षां संसृतिनाशिनीं तु कमलाचार्यस्य पार्वेऽग्रहीत् । संयम्याऽक्षकदम्बकं प्रतिदिनं धत्ते च यः सन्मति, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥२॥ व्याख्यारञ्जितचित्तवृत्तिरखिलः सङ्घोऽनघश्चैडरो, व्याख्यागीष्पतिरित्यदात् पदमलं यस्मै यथार्थं किल । रात्रीनायकसप्तनन्दवसुधावर्षे(१९७१) शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥३॥ दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतःस्थिति, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दूज्ज्वलाम् । नानाशास्त्रसमुत्थयुक्तिनिवहै: प्रज्ञाजुषां संसदि, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥४॥ भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नाऽऽस्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः ।
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy