________________
वृद्धेः कुटुम्बो विततोऽस्ति भूयान्, नानाविधैर्मोहमयैर्विलासैः । यत्प्रेमपाशैरिह सर्वजीवा, बद्धा न मुक्तिं भुवि कामयन्ते ||६३ || क्वचित्तरुण्यो मदनैकवासा, हग्बाणपातैर्व्यथयन्ति यूनः । क्वचित् कुमार्यश्चपलैर्विनोदै - श्वेतांसि पुंसां सहसा हरन्ति ||६४|| क्वचित् कुमारा मृदुहासवाणी-चाटु- प्रयोगैर्निजबन्धुवर्गम् । शनैश्चलन्तः परिमोहयन्ति, मामेति कार्केति मुहुर्वदन्तः ॥ ६५ ॥ क्वचिन्महाव्याधिमहाहिवक्त्रे, वेविश्यमाना विवशा रुदन्तः । हाहेतिशब्दैः परिखेदयन्ति, कथं ततः स्याज्झगिति प्रयाणम् ॥६६॥ क्वचिज्जनन्य: सुरकल्परूपा, निर्व्याजवात्सल्यसुकामगव्यः । स्वाभ्यर्णवर्तिप्रियतोकरत्नान् मुञ्चन्ति नाऽहो प्रबलोऽत्र मोहः ||६७|| माता तु माता ममताप्रधाना, पुत्रैषणासक्तमन: प्रवृत्तिः ।
जातु प्रियात् स्वान् न च मोक्तुकामाः सर्वेऽपरे हन्त च कार्यकामाः ||६८|| मोहस्य माया परमा दुरन्ता, नाऽन्तो न तस्या इदमेव चित्रम् । ये ज्ञानिनस्तां सुतरां तरन्तु, मायास्यभोज्या अपरे भवन्तु ॥६९॥ त्यक्त्वा कुवृद्धिं भयदां सुखेन, निर्वाणवृद्ध्या खगणो विधेयः । अत्राऽपि सौरव्यं विविधप्रकारैर्भुक्त्वा परे पाणिगताऽस्ति मुक्ति: ॥७०॥ निर्वाणमार्गः सुखदो गरीयान् शान्तिप्रधानो मुनियोगिगम्यः । क्लेशस्य लेशो नहि यत्र कश्चिद्, रागादिवृद्धिर्न च यत्र काचित् ॥७१॥ नाम्नः प्रभावो गदितो मया वै, श्रीवृद्धिचन्द्रस्य मुनेः सुचारुः । नाम्नोऽनुकूलं चरितं हि तस्य, पीयूषकल्पं ननु वावदीमि ॥७२॥ मतिरियं जगतश्चिरकालतो, गतवतो विधिखेलनलासिनः । भवति ना भवतापविनाशको, निज़पराभिमताभ्यधिवेदनः ॥ ७३ ॥ जगदिदं परिणामविलक्षणं, क्षपणवर्द्धनशीलमनुक्षणम् । भवति लाघवमत्र तदा यदा, प्रभुमुखागतधर्मपरम्परा ॥७४॥ जगति मानवराशिरपि क्वचित्, कुमतिकेसरिवक्त्रगतिग्रहः । भवति नैव तदा सुकृतानुगो, विपथमेति न चेद् विधियोगतः ॥७५॥
कुपथजालखगायितमानवान्, मतमतान्तरवेदि - सुपेशलाः ।
इह नयन्ति निजागमपद्धति, सदयमुग्धमनोहरणक्षमाः ॥७६॥
६