SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तथैव वाक्यजन्यबोधनिष्ठस्य प्रामाण्यस्य ग्रहणमपि "इदं वाक्यं यथार्थज्ञानिनाऽऽप्तपुरुषेण प्रणीतमिति प्रमाणभूत"मितिविचारणातो जायते, न तु स्वतः । अतो वेदजन्यबोधगतं प्रामाण्यमपि यथार्थज्ञानवदाप्तपुरुषप्रणीतत्वेनैव निश्चीयते । ततश्च वेदप्रणेतृ-यथार्थज्ञान्याप्तपुरुषत्वेनाऽपीश्वरसिद्धिः । इत्थमादौ तु नैयायिकानां मते ईश्वरसिद्ध्यर्थं शब्दप्रमाणे एवोभयतः (-उत्पत्तौ ज्ञप्तौ च) परतः प्रामाण्यस्याऽऽदर आसीत् । किन्तु क्रमेण तैः सिद्धान्तस्थापनदृष्ट्या सर्वेष्वपि प्रमाणेषु परतः प्रामाण्यस्य पक्षः स्थिरीकृतः । अस्य विपक्षत्वेन, मीमांसका वेदमपौरुषेयम् (-अकर्तृकं) मन्यन्ते स्म । न च तेषां मते ईश्वरस्याऽप्यस्तित्वम् । ततस्ते शब्दप्रमाणे उत्पत्तौ ज्ञप्तौ वा परतः प्रामाण्यमुरीकर्तुं न क्षमन्ते स्म । अतस्तैः स्वत एव प्रामाण्यं स्वीकृतम् । अर्थात् तेषां मते "वेदा यथार्थज्ञानिनाऽऽप्तपुरुषेण प्रणीता अतो प्रमाण"मिति विचारणातो वेदप्रामाण्यं न गृह्यते । किं तहि ? वेदाः प्रमाणत्वेन स्वयं प्रतिष्ठिताः । न च तत्प्रामाण्यं तत्कर्तृगतयथार्थज्ञानसापेक्षम्, अपौरुषेयत्वेन तस्याऽभ्युपगमतस्तस्याऽकर्तृत्वात् । एवं च प्रामाण्यस्य वेदेषु स्वयंसिद्धत्वाद् न तस्योत्पत्त्यर्थं तस्य ग्रहणार्थं वा यथार्थज्ञानवत्त्वस्याऽऽप्तत्वस्य वाऽऽवश्यकत्वं, न च तदाश्रयतयेश्वरसिद्धिरित्यभिसन्धिः । अग्रे तु मीमांसादर्शने सर्वेष्वपि शाब्दबोधेषु, ततोऽपि सर्वेष्वपि प्रमाणेषु स्वतःप्रामाण्यमभ्युपगमनीयमभवत् । क्वचित् स्वतः प्रामाण्यं, क्वचिच्च परतः - इत्यभ्युपगमस्त्वस्याद्वादिनां मीमांसकानां दर्शने न सम्भवत्येवेति, एकत्र स्वतः प्रामाण्येऽभ्युपगते, सर्वत्र स्वतः प्रामाण्यमेवेति तेषां सिद्धान्तो जातः । ___ यथोपदर्शितमादौ चर्चेयं नैयायिक-मीमांसकयोमिथ एव प्रवर्तिता । परमग्रेतनकाले क्रमशोऽन्यदार्शनिकैरप्यस्मिन् विषये स्वमन्तव्यनिदर्शनं तद्द्वारा चर्चायां भागग्रहणं च विधेयमभवत् । भारतीयतत्त्वज्ञानपरम्परायां प्रामाण्यवादसम्बन्धि विस्तृतं विपुलं च साहित्यमुपलभ्यते तदस्यैव फलम् । अस्मिन् साहित्य न्यायवार्तिकगतायाः सरलायास्तर्कसरणेरारभ्य गदाधरभट्टाचार्याणां जटिलं तर्कजालं यावदन्तर्भवति । अद्याऽपि च तत्सम्बन्धि नूतनं साहित्यं सृज्यमानमेव वर्तते । अस्य समग्रस्य साहित्यस्याऽऽकलनेन प्रामाण्यवादे प्रधानतः पञ्च पक्षा अवगम्यन्ते । तथाहि - १. प्रामाण्यमप्रामाण्यं चोभयं स्वतः - साङ्ख्यदर्शनम् २. प्रामाण्यं स्वतोऽप्रामाण्यं च परतः - मीमांसा (पूर्वोत्तरा च) १. प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः । नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाऽप्रमाणताम् ॥ - सर्वदर्शनसङ्ग्रहः (-माधवाचार्यः) ६५
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy