________________
ऽप्रामाण्ये अपि गृह्येते उत नेति । सङ्क्षपेणोच्यते चेद, ज्ञानस्य ग्रहणं यदा जायते (भवतु तत् स्वसंवेदनतः परसंवेदनतो वा), तदैव तन्निष्ठे प्रामाण्या-ऽप्रामाण्ये अपि स्वाभाविकतया गृह्येते, आहोस्वित् तद् ग्रहणं ज्ञानग्रहणानन्तरं क्रियान्तरसापेक्षं भवति ? दार्शनिकपरिभाषायां स्वाभाविकं सहभावि ग्रहणं 'स्वतः', क्रियान्तरमपेक्ष्य जायमानं ग्रहणं च 'परतः' उच्यते । अपि च तद् ग्रहणं कथं भवतीति विषयमधिकृत्य जायमानो विमर्शः 'प्रामाण्यवादः' कथ्यते ।
वस्तुतः प्रामाण्यवादचर्चा द्विधा भवति । एकः प्रकारस्तु यथोपरि दर्शितस्तथा प्रामाण्यस्याऽप्रामाण्यस्य वा ग्रहणमधिकृत्य । द्वितीयस्त्वित्थम् - ज्ञाने प्रामाण्यमप्रामाण्यं वा कुत उत्पद्यते इति विषये दार्शनिकानां नानाविधानि मन्तव्यानि सन्ति । तत्र केषाञ्चिन्मते ज्ञानसामान्यस्य जनिका या कारणसामग्री भवति, सैव तत्तज्ज्ञाननिष्ठस्य प्रामाण्यस्याऽप्रामाण्यस्य वा जनने पर्याप्ता भवति । एवं च प्रामाण्यमप्रामाण्यं वा स्वोत्पत्तौ ज्ञानजनकसामग्रीमतिरिच्य कारणान्तरनिरपेक्षत्वात्, स्वाभाविकतयोत्पद्यमानं (-स्वतः) कथ्यते । अतो विरुद्धतया प्रामाण्या-ऽप्रामाण्ययोः 'परत' उत्पत्तिमङ्गीकर्तार आचार्या ज्ञानजनकसामग्रीमविशिष्टज्ञानजनिकां कथयन्ति । एतेषां मते तत्तज्ज्ञाने प्रामाण्या-ऽप्रामाण्यरूपं वैशिष्ट्यं कारणगतगुण-दोषमपेक्ष्यमुत्पद्यते, न स्वाभाविकं तत् तत्र सम्भवति ।
प्रकारद्वयविश्लेषणार्थं ग्रहणचर्चा 'ज्ञप्तौ प्रामाण्यवादः' उत्पत्तिचर्चा च 'उत्पत्तौ प्रामाण्यवाद' इत्यभिधीयते ।
साधारणतः प्रामाण्यवाद-सम्बन्धिन्यौ इमे चर्चे परस्परमवलम्बिते इत्यतः, उत्पत्तौ 'स्वतस्त्व'स्वीकर्तारो ज्ञप्तावपि स्वतस्त्वमेव समर्थयन्ति, 'परतः'पक्षधरास्तूभयत्र परतस्त्वम् । अपवादास्त्वत्राऽपि सन्त्येव, परं स्वल्पाः ।
मूलत: चर्चेयमीश्वरस्य सिद्धिमधिकृत्य प्रवर्तते स्म । तत्राऽपि सा शब्दप्रमाण एव सीमिताऽऽसीत् । नैयायिका ईश्वरसिद्ध्यर्थमेवोत्पत्तौ ज्ञप्तौ चोभयत्र परतः प्रामाण्यं स्वीकुर्वन्ति स्म । तेषां कथनमासीद् यद् वक्तृगत-यथार्थज्ञानात्मकगुणत एव, वक्तृप्रयुक्त-वाक्यजन्ये बोधे प्रामाण्यमुत्पद्यते न तु स्वतस्तत् सम्भवति । अर्थात् श्रोतरि जायमानो बोधो यदि प्रमात्मकस्तहि तस्मिन् प्रामाण्यस्य जनकरूपेण वाक्यस्य वक्तरि यथार्थज्ञानस्याऽस्तित्वं स्वीकरणीयमेव, अन्यथा वक्तृगताऽयथार्थज्ञानात्मकदोषहेतुतो वाक्यजन्यो बोधोऽप्रमात्मकोऽपि भवेत् । इत्थं च वाक्यसामान्यस्य प्रमाप्रमोभयात्मकबोधस्य जनकत्वेऽपि, एकस्मिन् बोधे प्रामाण्या-ऽप्रामाण्यान्यतरदेव जायते, तत्र वक्तृगतो गुणो दोषो वैव हेतुभूतः । अथ च वेदजन्यबोधोऽपि प्रमाणभूतः । ततस्तत्र प्रामाण्यस्य जनकतया यथार्थज्ञानात्मक-गुणस्याऽस्तित्वं स्वीकरणीयमेव, तच्च सर्वव्यापि यथार्थज्ञानं नेश्वरमतिरिच्याऽन्यत्र सम्भवतीति, वेदजन्यबोधनिष्ठप्रामाण्यजनकयथार्थज्ञानस्याऽऽश्रयतयेश्वरः सिद्ध्यति ।
१. यथा जैनमते उत्पत्ती परत:पक्षस्यैव स्वीकारेऽपि, ज्ञप्तौ कथञ्चित् स्वतःपक्षस्याऽपि समादरः ।
६४