________________
तत्त्वबोधप्रवेशिका - १
प्रामाण्यवादः
मुनित्रैलोक्यमण्डनविजयः
(श्रीसिद्धसेनदिवाकरैर्विरचितस्य सन्मतितर्कप्रकरणस्योपरि न्यायपञ्चानन - श्री अभयदेवसूरिप्रणीतायास्तत्त्वबोधविधायिन्याख्याया वृत्तेरध्ययनकाले भासितं यदियं वृत्तिर्विद्यार्थिनां कृते दुर्गमेव । समाविष्टा नानाविधाश्चर्चा:, तर्क-प्रतितर्कानामीषदज्ञाता परिपाटी, दुरूहं विकल्पजालं, पाण्डित्यपूर्णा शैली - इत्यादिभिः कारंणैरस्या वृत्तेस्तत्त्वावगमनं न तावत् सुकरम् । तत्राऽपि खण्डन- मण्डनयोः सुविस्तृता प्रक्रियाऽपि बाधां समुपस्थापयति । ततः ‘अस्मात् सर्वस्मात् चचार्या हार्दं पृथक्कृत्य, यदि तत् सरलया शैल्या सङ्क्षिप्ततया च प्रस्तुतीक्रियेत, तथैव तेन साकं काचित् सन्दर्भात्मिका सामग्र्यप्युपन्यस्येत, तर्हि वरं भवे' दिति समुपधार्य तादृशानां लेखानामेकां श्रेणीं कर्तुं विचारः समुद्भूतः । तदनुसारमिह वृत्तावादावेव चर्चितः प्रामाण्यवादः प्रस्तुतीक्रियते ।)
जायमानाः सर्वेऽप्यनुभवा न केवलं यथार्था अयथार्था वा भवन्तीति वयं जानीम एव । तथैव तत्तदनुभवगतस्य यथार्थत्वस्याऽयथार्थत्वस्य वा भानमपि जायते एवेत्यप्यनुभवसिद्धम् । सर्वाणि दर्शनान्यप्येतदङ्गीकुर्वन्त्येव ।
अत्र प्रश्नोऽयं जायते यद् ज्ञानगते यथार्थत्वा - ऽयथार्थत्वे कथं ज्ञायेते ? को वा तन्निश्चायक: ? ‘ज्ञानं स्वप्रकाश’मित्यङ्गीकुर्वतां मते, यदा ज्ञानं स्वयमेवाऽऽत्मनो ज्ञानं जनयति, तदा तेनैव सममात्मनः प्रामाण्यमप्रामाण्यं वाऽपि तद् ज्ञापयति नवेत्येकः प्रश्नः । द्वितीयस्तु 'ज्ञानं ज्ञानान्तरसंवेद्य'मिति परप्रकाशपक्षधराणां मते', ज्ञानं यदा ज्ञानान्तरेण गृह्यते, तदा तेन ज्ञानान्तरेण किं तज्ज्ञाननिष्ठे प्रामाण्या
९. यद्यपि मीमांसक - प्रभाकराणां मतेऽयथार्थज्ञानस्याऽस्वीकारः, सर्वेषामपि ज्ञानानां तन्मते प्रमाणात्मकत्वात् । तथाऽपि स्मृतिप्रमोष-भेदाग्रह-विबेकाख्यात्यादिप्रक्रियाया अवलम्बनेन भ्रमात्मकज्ञानस्य साङ्गत्यं तु ते कुर्वन्त्येव ।
२. आर्हताः, सौत्रान्तिका योगाचाराश्च बौद्धाः, प्राभाकराः, शङ्कराचार्यानुयायिनः - इत्येतेषां मते ज्ञानं स्वप्रकाशम् । तन्नाम ज्ञानं स्वसंवेदनेनैव गृह्यते ।
३. ज्ञानं स्वविषयस्य बोधने एव समर्थम् । न तु तत् स्वमपि ज्ञापयति । ज्ञानस्य ग्रहणार्थं त्वन्यदेव ज्ञानमावश्यकमिति स्वीकर्तारो नैयायिका मुरारिमिश्राः कुमारिलभट्टा - इत्यादयः परप्रकाशवादिनः ।
६३