SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तस्मात् पापप्रणाशाय नरकोत्तरणाय च । कदम्बाख्यगिरेर्यात्रा कर्तव्या पापभीरुभिः ॥२॥ यत्रैकदर्शनादेव क्षीयन्ते पापराशयः । शुद्धान्तःकरणा भूत्वा मोदन्ते दिवि देववत् ॥३॥ शत्रुञ्जया नदी यत्र स्नात्वा देवं प्रपूजयेत् । दत्त्वा दानञ्च विधिवन्मानुष्यं सफलं कुरु ||४|| मिसूरिं गुरुं नत्वा तदाज्ञापरिपालकः । सर्वस्वं गुरवे दत्त्वा न पुनर्मानुषो भवेत् ॥५॥ प्रतिष्ठां मन्दिरं कृत्वा तथा यात्रामहोत्सवान् । स्ववित्तं शुभमार्गेण व्ययं नीत्वा सुखीभव ||६|| इति विचार्य ध्यानाज्जाग्रत् संस्तं श्रीकदम्बाख्यगिरिम्प्रति यतीश्वरं श्रीनेमिसूरिं भगवदात्मभूतं निजानन्दसहितं मनसा प्रेरितवान् यद् भवान् भगवद्रूपोऽस्ति भव्यजीवानुग्रहार्थञ्च पृथिव्यां सञ्जातः । अयं भवतो लोकोत्तरावतारस्ततो जिनेश्वरधर्मविस्तारं करोतु । अतो भवान् स्वोपार्जितदिव्यज्ञानेन जिनप्रासादादीनि निर्माप्य प्रतिष्ठायात्रादिमहोत्सवञ्च कारयित्वा सर्वेषां जीवानां जिनधर्मसम्प्रदाय-पुरस्सरमुंद्धारं करोतु तेन भवतोऽवतारसाफल्यं भविष्यति । ततो भोगेन पुण्यक्षयं कुर्वन् कुशलेन कर्मणा पापक्षयं कुर्वन् कालजवेन कलेवरं हित्वा देवलोकगीतां विशुद्धां कीर्तिमवाप्य मुक्तबन्धः सन् आत्मज्योतिःस्वरूपमेष्यति भवात् । इति शासनाधिष्ठायकः सद्गुरुं नेमिसूरिमादिष्टवान् । अतः भव्यानुग्रहसम्भूतं जिनाज्ञापरिपालकम् । भव्येभ्यो मोक्षदातारं नेमिसूरिं गुरुं नुमः ॥७॥ कदम्बाख्यगिरिं नत्वा शत्रुञ्जयासमीपगम् । देवधर्मगुरुं नत्वा मोक्षधर्मं समाचरेत् ॥८॥ इति धर्मविधिं कृत्वा मानुष्यं मोक्षहेतुकम् । सफलं कुरु जीवात्मन् ! मोक्षं प्राप्तुं यदीच्छसि ॥९॥ अतो नरकार्हाणां जीवानां च भव्यानामपि तारणार्थमयं कदम्बाख्यो गिरिर्वर्तते । तस्मात्तत्र सङ्घयात्रया गत्वा जिनमन्दिरं वा मूर्तिं प्रतिष्ठाप्य गुर्वाज्ञां गृहीत्वा तदाज्ञापुरस्सरं शुद्धधर्मं विज्ञाय सुकृती भव्यो जीव आत्ममोक्षं कुर्यादिति शम् ॥ इति श्रीकदम्बगिरि-माहात्म्यम् ॥ ६०
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy