________________
३. प्रामाण्यमप्रामाण्यं चोभयं परतः - न्याय-वैशेषिकदर्शने ४. प्रामाण्यं परतोऽप्रामाण्यं च स्वतः - प्राचीनबौद्धाः
५. अनियमितपक्षः - आर्हता नव्यबौद्धाश्च अत्र पञ्चानामपि पक्षाणां विषये क्रमशो विमृश्यते -
१. प्रामाण्यमप्रामाण्यं चोभयं स्वतः - साङ्ख्याचार्यैः पक्षोऽयमभ्युपगत इत्युल्लेखा माधवाचार्यरचित-सर्वदर्शनसङ्ग्रहः, कुमारिलभट्टप्रणीत-श्लोकवार्तिकम् - इत्यादिषु यद्यपि दृश्यन्ते; तथापि मतस्याऽस्य हार्द, तर्काः, प्रमाणानि - इत्यादिसम्बन्धिनः साहित्यस्याऽभावे न तस्य विमर्शः शक्यः ।
__ अत्र कल्पनैकोद्भवति यत् साङ्ख्यदर्शनं सत्कार्यवाद्यस्ति । अतस्तस्य मते सर्वमपि कार्य स्वोपादानीभूते कारणे प्रथमतः; प्रच्छन्नतया विद्यमानमेव भवति, सहकारीभूतैः कारणैः केवलं तस्य प्रादुर्भाव एव भवति । अथ च प्रामाण्या-ऽप्रामाण्ये अपि कार्यात्मकधर्मावेव । ततस्तयोरपि तदुपादानकारणे स्वोत्पत्तेः पूर्वमपि विद्यमानत्वमेवाऽङ्गीकरणीयम् । इत्थं च तयोरपि स्वत एव उत्पत्तिः (-प्रादुर्भाव:), न परतः । किन्त्विदं कल्पनामात्रं, वास्तवमन्यदपि सम्भवेत् ।
___ एवं चार्वाक-योगदर्शनयोरप्यस्मिन् विषये कीदृशं मन्तव्यमिति न ज्ञायते । परं वैशेषिकाणामस्मिन् विषये स्वकीयमन्तव्यस्याऽनुपलब्धावपि, नैयायिकैः प्रायः समानतन्त्रत्वात् तेषां यथा परतःप्रामाण्यवादित्वमननं, तथैव योगदर्शनस्य स्वसमानतन्त्रेण साङ्ख्येन सदृशमेव मन्तव्यं स्यादिति मनने नाऽऽपत्तिर्भासते ।
२. प्रामाण्यं स्वतोऽप्रामाण्यं च परतः - पूर्वमीमांसोत्तरमीमांसयोर्मते ज्ञानोत्पत्तेर्ज्ञानग्रहणस्य च प्रक्रियायां परस्परं विभेदेऽपि प्रामाण्यवादे उभयोरप्यैकमत्यम् । तन्नामोभयमते प्रामाण्यमुत्पत्तिप्तिरित्युभयत्र स्वतोऽप्रामाण्यं चोभयत्र परतः स्वीकृतमस्ति ।।
उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम ज्ञानसामान्यस्य जनिका या साधारणा कारणसामग्री भवति, ततो ज्ञानेन सहैवोत्पद्यमानत्वं, कारणान्तरस्य स्वोत्पत्तौ चाऽनपेक्षत्वम् । अर्थाद् ज्ञानजनिका सामग्री प्रमाया एव जनिका भवति, तथा ज्ञानमात्रे प्रामाण्यं स्वतोनिष्ठं भवति । अप्रामाण्ये तु नैवम् । तत्तु स्वोत्पत्तौ ज्ञानजनकसामग्रीमतिरिच्य कारणगतदोषानप्यपेक्षते, यतो दोषयुक्तैव कारणसामग्र्यप्रमोत्पादिका । एवं प्रामाण्यं निरपेक्षत्वात् स्वतोऽप्रामाण्यं च परापेक्षत्वात् परतः ।
१. अस्या विचारणायाः परम्पर्येण पोषिकैका युक्तिः सन्मतितर्कवृत्तावन्यत्र (पृ.४, पं.९) दृश्यते । तत्र मीमांसकैः स्पष्टीकृतं "न वयं सत्कार्यवादसमाश्रयणात् स्वतःप्रामाण्यवादिन" इति । अनेन ज्ञायते यत् सत्कार्यवादः स्वतःप्रामाण्यसाधकः।
२. उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्तिः -अथर्वभाष्यम्