SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अत्र मते समस्यैकोद्भवितुमर्हति । चक्षुर्गतं नैर्मल्यं, धातूनां समत्वं, मनसः स्वास्थ्यम्, इन्द्रियाणां पटुत्वमित्यादयः गुणाः प्रमाणभूतस्य ज्ञानस्य जनकहेतव इति लोकशास्त्रोभयसम्मतम् । स्वतःप्रामाण्यवादिभिस्तु प्रामाण्यस्योत्पत्तौ ज्ञानसामान्यजनकसामग्र्यतिरिक्तस्य निरपेक्षत्वमङ्गीकृतम् । ततश्च गुणेषु प्रामाण्यजनकत्वाभाव एव प्रतिपादितो भवतीति कथं न विरोध इति ? इत्थमत्र समाहितं स्वतःप्रामाण्यपुरस्कर्तृभिः न वयं गुणानां प्रामाण्यजनने सहभागित्वमपलपामः । गुणत्वेन परिचितानां तत्त्वानां प्रामाण्यजनकताया निषेधे नैवाऽस्माकं मतिः । किं तर्हि ? येष्वधिकरणेषु यानिं तत्त्वानि 'गुण' पदेन सङ्केतितानि भवन्ति, तानि तत्तदधिकरणानां स्वाभाविक्यवस्थैव, न पृथग् धर्मान्तरम् । तथाहि - चक्षुषि समलताऽऽगन्तुकधर्मः, ततश्च तमागन्तुकधर्मं 'दोष' रूपेण परिगणय्य तज्जनितमप्रामाण्यं 'परत' उच्यते । परं नैर्मल्यं तु चक्षुषः स्वकीयो धर्मः, नाऽऽगन्तुकः, यत् तस्याऽपेक्षणं 'परत' उच्येत । एवमेव ज्ञानजनककारणनिष्ठानि यानि तत्त्वानि 'गुण' पदेनाऽभिधीयन्ते तानि सर्वाण्यपि तत्तत्कारणांनां स्वरूपे एव समाविष्टानि, नौपाधिकानि । ततो ज्ञानजनकसामग्र्यन्तर्निहितेभ्यो गुणेभ्यो जायमानं प्रामाण्यं, स्वाधारीभूते ज्ञाने 'स्वत' एवोत्पद्यमानं कथ्यते; ज्ञानजनकसामग्रीव्यतिरिक्तेभ्यो दोषेभ्यो जायमानमप्रामाण्यं च 'परत' उत्पद्यमानमिति । - उत्पत्तौ प्रामाण्यस्य स्वतस्त्वकल्पने युक्त्यन्तरमित्थम् - ज्ञाननिष्ठाऽर्थस्य यथावस्थितबोधजनिका शक्ति: 'प्रामाण्य'मुच्यते । शक्तयश्च सर्वभावानां स्वत एव भवन्ति । नोत्पादककारणकलापस्याऽधीनत्वं सम्भवति । यथा मृत्पिण्डे विद्यमाना रूपादयो मृत्पिण्डादुपजायमाने घटेऽपि मृत्पिण्डरूपादिद्वारेणोप जायन्ते । घटनिष्ठा जलधारणशक्तिस्तु स्वत एव तत्र प्रादुर्भवति, न मृत्पिण्डादिकारणसमूहतः, तस्यास्तत्रा ऽभावात्। एवमेव ज्ञाननिष्ठाऽर्थस्य यथावस्थितबोधजनिका शक्तिश्चक्षुरादिषु ज्ञानोत्पादककारणेष्वविद्यमाना स्वत एवोत्पद्यमानाऽभिधीयते इति । ३ प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वं नाम स्वाश्रयीभूतस्य ज्ञानस्य ग्राहकेण ग्राह्यत्वम् । अर्थात् प्रमात्मकज्ञानस्य स्वसंवेदनेन (-प्रभाकरमते), अनुव्यवसायेन (-मुरारिमिश्रमते), ज्ञाततालिङ्गकयाऽनुमित्या (-कुमारिलभट्टमते), साक्षिज्ञानेन (-वेदान्तिमते) वा यदा ग्रहणं जायते, तदैव तज्ज्ञानगतं प्रामाण्यमपि गृह्यते एवेति । इदं सर्वज्ञानेषु समानम् । तेन ज्ञानं प्रमात्मकं स्याद् भ्रमात्मकं वा, परं प्रारम्भे तु तद् निरपवादत्वेन प्रमाणभूतमेव ज्ञायते । अग्रे तु भ्रमात्मकस्थले प्रत्यक्षान्तरेण ज्ञानप्रवर्तितप्रवृत्तिवैफल्येनाऽऽप्तवचनेन वा तस्य भ्रान्तत्वावगमे प्रारम्भिकी प्रामाण्यबुद्धिर्निवर्तते, अप्रामाण्यस्य च भानं जायते । अन्यथा तत्र १. न चेन्द्रियनैर्मल्यादि गुणत्वेन वक्तुं शक्यम्, नैर्मल्यं हि तत्स्वरूपमेव, न पुनरौपाधिको गुणः । तथाव्यपदेशस्तु दोषाभावनिबन्धनः । - सन्मतितर्कवृत्तिः २. मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते । उदाहरणे तस्य तदपेक्षा न विद्यते ॥ सन्मतितर्कवृत्तावुद्धृतः ३. "ज्ञप्तौ स्वतस्त्वं नाम ज्ञानग्राहकमात्रग्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गतं प्रामाण्यमपि गृह्यते इति " - प्रमाणपद्धतिः परि. १ ६७
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy