SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १ प्रामाण्यबुद्धिरेवाऽनुवर्तते । एवं च प्रामाण्यबोधः स्वाभाविको ज्ञानान्तरनिरपेक्षश्च, अप्रामाण्यबोध: पुनर्ज्ञानान्तरसापेक्षत्वेनाऽस्वाभाविक इति । अयमत्राऽऽशयः - ज्ञाने प्रामाण्यनिश्चयेऽसति न तज्ज्ञानप्रवर्तिता पुरुषस्य प्रवृत्तिः । तथाहि – “मम अयं घट इति ज्ञानं प्रमाणभूत" मिति निश्चयो यावन्नोद्भवति, न तावत् तज्ज्ञानप्रवर्तिता पुरुषस्य घटविषयिकी प्रवृत्तिः सम्भवति, प्रवृत्तिवैफल्यभयात् ! निश्चयश्चाऽयं स्वतः प्रामाण्यस्य ग्रहणे एव सम्भवी । यतो ज्ञानप्रवर्तितायाः क्रियाया अनन्तरमेव तत्साफल्येन, ज्ञानगतप्रामाण्यस्याऽनुमानेन निश्चय इत्याग्रहे, प्रवृत्तेरेवाऽसम्भव इति ज्ञानमात्रे पूर्वं प्रामाण्यस्य निश्चयः, ततश्च तज्ज्ञानद्वारा पदार्थप्रकाशनेन पुरुषस्य प्रवृत्तौ प्रवर्त्तनम्, ततश्च प्रवृत्तेः संवादित्वे सति ( - ज्ञानक्रिययोरविरोधे, ज्ञानानुरूपमर्थस्योपलब्धाविति यावत्), पूर्वगृहीतस्य प्रामाण्यस्य पुष्टिः, प्रवृत्तेर्विसंवादित्वे च (ज्ञानानुरूपमर्थस्याऽनुपलब्धौ ) प्रामाण्यबोधस्य निवर्तनमप्रामाण्यस्य च ग्रहणमिति प्रक्रिया | केषाञ्चिज्ज्ञानानामुत्पत्त्यनन्तरम् 'इदं प्रमा स्यादप्रमा वेति संशयोत्पत्तिरनुभवसिद्धा । सर्वत्र स्वत: प्रामाण्यग्रहे न सा सम्भवतीत्यत्राऽऽशङ्कोद्भवितुमर्हति । स्वतः प्रामाण्यवादिभिरस्या निराकरणार्थं ज्ञप्तेर्लक्षणे ‘दोषाभावे सतीत्यपि समावेशितम् । तथा च दोषाणां सत्त्वे स्वतः प्रामाण्यनिश्चयस्याऽभाव एवाऽभ्युपगतः । अथ च संशयो दोषाणां सत्त्वे एव भवतीति यत्र संशयस्तत्र 'दोषाभावे सती' त्यंशस्याऽ पूरणात् तत्र स्वतः प्रामाण्यस्य ज्ञप्तेः सम्भावनैव नाऽस्तीति नाऽऽपत्तिरिति । तत्र प्रभाकरगुरूणां मते सर्वं ज्ञानं स्वप्रकाशकमिति स्वसंवेदनेन ज्ञानस्य ग्रहः । मुरारिमिश्राणां मते ज्ञानं स्वसमनन्तरजन्येन मानसप्रत्यक्षेण ( - अनुव्यवसायेन गृह्यते । कुमारिलभट्टास्तु ज्ञानमतीन्द्रियं स्वीकुर्वन्तीति तेषां मते ज्ञानविषयीभूतेऽर्थे या तज्ज्ञानजन्या ज्ञाततोद्भवति, तया तज्ज्ञानमनुमीयते । वेदान्तिनस्तु साक्षिज्ञानेन वृत्तिज्ञानग्रहणमाहुरिति प्रस्थानानां नानात्वेऽपि ज्ञानग्रहणेन साकमेव तज्ज्ञाननिष्ठस्य प्रामाण्यस्याऽपि स्वाभाविकं ग्रहणमित्यत्र सर्वेषामैकमत्यम् । ३. अप्रामाण्यं स्वतः प्रामाण्यं च परतः - बौद्धदर्शनस्येदं प्राचीनं मतं माधवाचार्याणां सर्वदर्शनसङ्ग्रहे, श्चेरबात्स्कीवर्यस्य 'बुद्धिस्ट लाजिक्' इत्यत्र (पृ. ६६), आचार्य - नरेन्द्रदेवस्य 'बौद्ध धर्मदर्शन' पुस्तके (पृ. ५९१) चोल्लिखितमस्ति । मतेऽस्मिन् सर्वज्ञानेषु प्रामाण्यव्यभिचारस्य सम्भवः । ततश्च ज्ञानमात्रे तद्ग्रहेणन साकं तन्निष्ठाप्रामाण्यस्याऽपि स्वाभाविकं ग्रहणं, 'इदं ज्ञानं प्रमाऽप्रमा वेति संशयोत्पत्तिश्च । पश्चात्काले ज्ञानजनककारणनिष्ठगुणानां भाने, ज्ञानप्रवर्तितप्रवृत्तेः संवादित्वे, आप्तवचनोपलम्भे १. प्रामाण्या-प्रामाण्याश्रयीभूतज्ञानग्राहकं यद् ज्ञानं तदतिरिक्तं ज्ञानमंत्र ज्ञानान्तरत्वेनाऽभिप्रेतम् । तेन प्रामाण्यस्य ज्ञप्तौ ज्ञानग्राहकज्ञानस्याऽऽवश्यकत्वेऽपि न क्षतिः । २. “स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । न चैवं प्रामाण्यसंशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्याऽपि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाऽग्रहात् " वेदान्तपरिभाषा - अनु० परि० ६८
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy