SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रान्तिमचरण-पादपूर्ति-रूपः परमगुरुशासनसम्राटश्रीविजयनेमिसूरीश्वरजीवनवृत्तवर्णनात्मकः स्वोपज्ञप्रभावृत्तिविभूषित: श्रीनेमिस्तव: स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः अर्हन्मतानुगमनं गुणवत्प्रकामं, स्याद्वादसारनयभङ्गभराभिरामम् ।। नेमे ! गुरो ! तव वचोऽस्त्यधुनातनानां, वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥ अन्वयः गुरो ! नेमे ! स्याद्वादसारनयभङ्गभराभिरामम्, अर्हन्मतानुगमनम्, प्रकामम्, गुणवत्, तव, वचः, भवजले, पतताम्, अधुनातनानाम्, जनानाम्, आलम्बनम्, वा अस्ति । प्रभावृत्तेः मंगलम् हा अहँ वरं मन्त्रं प्रणिधाय परं महः । नेमिस्तवप्रभावृत्तिः, सुखबोधाय तन्यते ॥ प्रभावृत्तिः गुरो ! गृणाति समुच्चारयति धर्ममिति गुरुः । "क गृ ऋत उर्च" (उणादि ७३८) इति उ प्रत्ययः । तदामन्त्रणे तथा । हे धर्मोपदेशक ! "गुरुर्धर्मोपदेशक" १/७७ इत्यभिधानचिन्तामणिः । नेमे ! - सूरिरूपस्य चक्रस्य नेमिवनेमिस्तदामन्त्रणे तथा । सूरिचक्रचक्रवर्तिन् भगवन् नेमिसूरीश्वरेति यावत् । स्याद्वादसार-नयभङ्गाभराभिरामम् - स्यात्पदलाञ्छितो वादः स्याद्वादोऽनेकान्तवादः, तत्त्वेषु भावाभावादिशबलैकरूपत्वात्, प्रतितत्त्वाधिकरणकविरुद्धानेकधर्मप्रकाशकत्वमिति यावत्, स एव सारः श्रेष्ठः ययोस्तौ च तौ नयभङ्गौ - प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी चाऽध्यवसायविशेषो नयश्च - एकत्र वस्तुन्यैकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधावाक्यप्रयोगो भङ्गश्च स्याद्वादसारनयभङ्गौ तयोर्भरोऽतिशयस्तेन अभिरामं-मनोहरन्तथा । यद्वा - नयसंवलितो भङ्गो नयभङ्गः, स्याद्वादे सारः श्रेष्ठों यो नयभङ्गस्तस्य भरोऽतिशयस्तेनाऽभिरामन्तथेति । २३
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy