SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स्वाध्यायार्थं नु कि कार्यम् ? साधुः कस्य च बान्धवः ? | सदाचारश्च किं प्रोक्तः? मौनं सर्वस्य भूषणम् ॥११॥ परदोषे च किं कुर्यात् ? प्रियश्च कस्य सज्जनः ? | वपुर्धर्मस्य किं प्रोक्तम् ? मौनं सर्वस्य साधनम् ॥१२॥ सर्वोत्तमं सुखं कस्य ? पशूनां भोजनं च किम् ? ब्रह्म सत् तर्हि किं मिथ्या ? निःस्पृहस्य तृणं जगत् ।।१३।। साधनायां रताः केऽत्र ? सज्जनाः कीदृशा मताः ? । सदाचारं कदा कुर्युः ? साधवः सुखिनः सदा ॥१४॥ न त्यजेत् कुत्र धीरत्वम् ? सर्वेषां किं प्रियं मतम् ? | बलादपि हि का श्रेष्ठा ? व्यसनेषु धनं मतिः ॥१५॥ किं प्रोक्तं शीतलं लोके ? कुत्र तिष्ठन्ति मानवाः ? । वसन्ति श्वापदाः कुत्र ? चन्दनं न वने वने ॥१६॥
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy