SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पित्रा पृष्टः पुत्रो वदति - पितर् ! तेन व्यापारिणाऽहं वञ्चितः, अद्य वाणिज्ये इयती हानिर्जाता,..... इति । एतच्छ्रुत्वा मनसि दुःखमनेके विकल्पाश्चोद्भवेयुः । अन्यदेशे गच्छन्नपि पिता वाणिज्यं करोति, माता च गृहकार्यं करोत्येव । एवं सति गृहं व्यापारं च मनसा साकं गृहीत्वैव गच्छन् जनः कथं कुत्र च शान्तिमवाप्नुयात् ? चिन्तय त्वम् ! परदेशे गतो जनः संसर्गशून्योऽस्ति, दुःखस्य निमित्तं न किमप्यस्ति, तथाऽपि तेन जनेनाऽहनिशं गृहसदस्यैः सहैतद्यन्त्रद्वारेण गृह-व्यापारविषयिकी चर्चा क्रियते, ततः संसर्गशून्यः सन्नपि दुःखीभवति । यदि स एतद्यन्त्रग्रहणं विनैव गच्छेत्, अथवा स गृहसभ्यैः सह गृहादिचर्चामेव न कुर्यात् तर्हि न काऽपि पीडा भवेत्, न च दुःखमप्युद्भवेत् । किञ्च, गृहे वाणिज्ये च या काऽपि विपत्तिर्जाता, तां विपदं स जनो दूरीकर्तुं न समर्थोऽस्ति, यदा गृहं प्रत्यागच्छेत्तदैव स किमपि कर्तुं शक्नुयात् । तथाऽप्येतच्चिन्ताजनिकां वार्ता संश्रुत्य स जनो यावत् परदेशं तिष्ठेत् तावद् दुःखीभवेत्, दर्शनीयस्थानेऽटतोऽपि प्रमोदं च कुर्वतोऽपि तस्य मनस्येषा पीडा निरन्तरं कण्टकवद् दुःखीकुर्यादेव । एवं गृहं व्यापारं परिवारजनं च सन्त्यजन्नपि रूप्यककोटिधनव्ययं च प्रकुर्वन्नपि स जनो यदा गृहे प्रतिनिवर्तेत तदाऽतीवाऽशान्तः श्रान्तो दुःख्युद्विग्नश्च भवति । एतत्समस्तदुःखानां कारणमस्ति - एतत् चलदूरवाणीयन्त्रम् । बन्धो ! अत्र किं जातम् ? लाभ उत हानिः ? केवलं हानिरेव जाता । जनोऽतीवाऽशान्तो दुःखी श्रान्तश्च जात एव, किन्तु तेनैतेन सहाऽन्यदपि प्राप्तं यद्, देहव्ययो वाणिज्यव्ययो विशुद्धाहारव्ययः समयव्ययोऽतीव धनव्ययः (वर्षं यावत् परिश्रमकरणेन यद्धनं प्राप्तं तद्धनं दशदिनेषु व्यतीकृतम्) विशेषतो धर्मव्ययश्चेति । किमेषा शान्तिप्राप्तिचेष्टा कथ्यते उत मूर्खचेष्टोच्यते ? त्वयैवं ज्ञातमेवोपर्युक्तकथनेनैतद् यन्त्रं दुःखानां कारणस्तीति । अद्य जनः क्षणमेकमपि एतद्यन्त्रं विना स्थातुं न शक्तोऽस्ति । पुत्रादिपरिवारं पत्नी वाणिज्यं किङ्करं च विना वसितुं समर्थोऽस्ति, किन्तु नैतद् यन्त्रमृते । मानसेऽनेकशः प्रश्नोऽप्युद्भवति - किं जनो गृहसदस्यानभिलषति उत यन्त्रमेतद् ? इति । जनोऽन्येन सह वार्तालापं कुर्वन्नपि स्वहस्ताद् तद्यन्त्रं न विमुञ्चति, अत्यावश्यकवार्तालापं प्रकुर्वन्नपि स एतद् यन्त्रं दरीदष्टि । यदि निद्रां न प्राप्नुयात्तर्हि जनो दीर्घकालमेतद्यन्त्रद्वारेणाऽनावश्यकं वार्तालापं क्रीडां च कृत्वा समयव्ययं धनहानि च कुर्यात् । अद्य त्वेतादृशी परिस्थितिरुद्भूता यत् - एतद्यन्त्रप्रभावेन जनोऽल्पस्वापी निशाचरश्च सञ्जातोऽस्ति । पुत्रमिव तद् यन्त्रमालिङ्ग्यैव जनो निद्राति । पूर्वं जनः स्वस्वेष्टभगवतां स्मरणं कृत्वैव स्वपिति स्म, तथोपकारिप्रभूनां दर्शनं स्मरणं च कुर्वन्नेव जागति स्म, तत्पश्चादेव सः सर्वमपि व्यवहारं चकार । अद्य तु स्वपनकाले जागरणकाले च जन एतद्यन्त्रस्यैव दर्शनं
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy