________________
भोः ! युष्माकं तु का वार्ता करणीयाऽस्ति ।
जनः स्वयमेव कोलाहलमशान्ति चोत्पादयति, प्रतिदिनमादिनं च तत्रैव रमते, एवं क्षुद्रजन्तुवत् स्वरचितजालेष्वेव बद्धो भवति । तत्पश्चादशान्तः श्रान्तश्च स जनः शान्तिमवाप्तुं माथेरान-पञ्चगीनी-गोवाकेराला-इत्याद्यटनीयस्थानेषु गृहं परिवारं व्यवसायं च विहाय बहुधनव्ययं विधाय च सोल्लासं गच्छति । इदानीं तु इभ्यजनेषु स्वसम्पत्तिप्रदर्शनस्याऽभिलाषा मनस्युच्छलति, ततस्ते जनाः शान्तिप्राप्त्यर्थं होंगकोंग-थाईलेन्ड-दुबई-मलेशिया-सिंगापोर-इत्याद्यपरप्रदेशेषु रूप्यककोटिव्ययं कृत्वा गच्छन्ति ।
आश्चर्यं त्वेतद्, यः शान्त्यर्थं परदेशे गतः, स जन एव ततो यदि प्रतिनिवर्तेत तदाऽतीवाऽशान्तः श्रान्तश्च भवेत्, इति । एतत्कथं शक्यम् ?
अद्य सर्वेऽपि जीवाः शान्ति सुखं चेच्छन्ति, तदर्थं ते सदा प्रयतन्ते, तथाऽपि जीवैरशान्तिर्दुःखं चैव प्राप्यते । उक्तं च
सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः । . तथाऽपि दुःखं न विनाशमेति, सुखं न कस्याऽपि भजेत् स्थिरत्वम् ॥
अत्राऽप्येषैव स्थितिवर्तते । जनो दुःखमशान्ति चाऽपाकर्तुमेव सर्वमपि त्यक्त्वाऽपरदेशे गच्छति, तथाऽपि दुःखमशान्ति चैव जनोऽवाप्नोति । 'कथमि'ति प्रश्नो विमर्शनीयोऽस्ति । ___ जनः परदेशे गच्छन्नपि गृहादिचिन्तां न विजहाति । जीवः कायेन गृहादिकं त्यक्तवान्, किन्तु न मनसा । एवमशान्तिप्रोत्पादकानि निमित्तानि सङ्ग्रह्मैव सोऽन्यत्र गतवान् । ततस्स जनः कुत्राऽपि गच्छेत्, तत्र सोऽशान्तिमेव प्राप्नुयात्, इति निश्चितं ज्ञेयम् ।
अशान्तेः कारणमस्ति चिन्ता । चिन्तामात्रं दुःखस्याऽशान्तेश्चोत्पादकमस्ति, आस्तां सा चिन्ता काऽपि विषयसम्बन्धिनी स्यात् । इदानींतनकाले मनुष्यजीवने चिन्तोत्पादनस्य मुख्य कारणमस्ति - चलदूरवाणी यन्त्रम् (Mobile) । सर्वचिन्तामुक्तानां जीवानामप्येतद् यन्त्रमकारणं दुःखायते । चिन्तामहासागरे एतद्यन्त्रं जनान् क्षिपन्ति । उदाहरणेन दर्शयामि -
बन्धो ! सांसारिकक्लेश-चिन्ताक्रान्तो जनो मनसः शान्त्यर्थं गृहादिकं सर्वमपि त्यक्त्वा 'मलेशिया' इतिस्थाने गतवान् । एष जीवो यावद्गन्तव्यस्थानं प्राप्नुयात् तावदेवैतद्यन्त्रद्वारेण गृहसदस्यैः सह चर्चा कुर्यात् । तत्पश्चात् प्रतिदिनं वारद्वयं तैः सह गृहादिविषयकं वार्तालापं करोत्येष जनः । तदा तैः परस्परं को वार्तालापः क्रियते ? मातर् ! भ्रातृजाययैवं कृतं, एवं च कथितम् । भ्रात्रा मया सहैतादृशो व्यवहारोऽकारि । भ्रातृजायाया जननी आगतवत्यासीत्, सा एवमेवं वदति स्म, ........इति ।