________________
विदधाति । उत्थिते सत्येव एतद्यन्त्रमङ्गीकृत्य - कस्य लघुसन्देशोऽस्ति (message), कस्य वाऽस्वीकृतसन्देशः (missed call) आगतोऽस्ति, इति प्रथमं पश्यति । ततः पश्चात् कदाचित् प्रभुस्मरणं करोति ।
एका पङ्कितः स्मर्यते - प्रभाते करदर्शनम् । अद्याऽहं कथयामि - प्रभाते यन्त्र(Mobile)दर्शनम् ।
चेतन ! अद्य जनः प्रगाढं चलदूरवाणीयन्त्रासक्तो जातः, तस्य वार्ताऽपि करणीयाऽशक्याऽस्ति । ऐदंयुगीनो जनो विषयकषायाधीनोऽस्ति, ततः संसारमहासागरनिमग्नोऽस्ति, एवमतीव दुःखी अशान्तश्चाऽस्ति । तदशान्तिमपास्तुं स प्रभुस्मरणं करोति, धर्मस्थानकेषु गत्वा विविधधर्मक्रियामाचरति, किन्तु स एतादृशो यन्त्रासक्तो जातो येन शान्तिप्रापकेषु शान्तिधामस्वरूपेषु च धर्मस्थानकेषु अपि तद्यन्त्रं गृहीत्वैव गच्छति । तत्र प्रभोः स्मरणेन सह यन्त्रस्य स्मरणं, प्रभोः दर्शनेन सह यन्त्रस्य चाऽपि दर्शनं करोति । भगवतां सद्ध्याने बाढं तल्लीनो जनोऽपि यदि समीपस्थस्य चलदूरवाणियन्त्रस्य घण्टिका वादिता स्यात्तर्हि तत्क्षणं प्रभुना सह क्रियमाणमनुसन्धानं विहायैतद्यन्त्रं पश्येत्, कदाचित् वार्तालापमपि कुर्यात्, अन्यथा लघुसन्देशं (message) कुर्याच्च । अहो ! आश्चर्यम् ! जनः कियान् मूढ आसक्तश्च जातोऽस्तीत्येतेन ज्ञायते ।
इदानींतनकाले चलदूरवाणीयन्त्रमेवाऽस्माकं शरणं सर्वस्वं च किं न स्यादिति प्रतिभाति । एवं सति जनेन शान्तिः कथं प्राप्यते ? ___भोः ! सुखं शान्तिश्चाऽऽगन्तुका नास्ति, किन्तु स्वाभाविकाऽस्ति । या स्वाभाविका साऽन्येन वस्तुना व्यक्तिना वातावरणेन च कथं प्राप्तुं शक्या ? अस्माभिर्वस्तुनिष्ठा व्यक्तिनिष्ठा वातावरणनिष्ठा च शान्तिः प्रकल्पिता । तत्कल्पनाप्रभावेनैव बहवो जनाः सुखाभासे रममाणाः सन्ति, किन्त्वेषा कल्पनैवाऽशान्ते: कारणमस्ति । यदि वस्त्वादिकं सर्वमपि क्षणिकं स्यात्तर्हि तत्तनिष्ठा शान्तिः क्षणिकैव स्यात्, एतत्तु सहजं गणितमस्ति, तथाऽपि गणितक्षेत्रे प्रवीणा निपुणाश्च वयं कथमेतत् सामान्यं गणितमपि न जानीम: ? इति प्रश्नो भवति । यावन्त्यद्यतनसुखसाधनानि तावन्ति दुःखकारणानि सन्ति । अद्य नागरिको जनो यावान् दुःख्यशान्तश्चाऽस्ति तावान् न दुःखी ग्रामीणो जनोऽस्ति, यतस्तत्समीपेऽद्यतनसाधनानि न विद्यन्ते । अद्यतनकालीनसर्वश्रेष्ठसाधनेषु परिचितस्वजनेषु च मध्ये निवसज्जनो विशेषतोऽशान्तो दुःख्युद्विग्नश्चाऽस्ति, इति पश्यामः ।
भो ! जीवने यदि शान्तिमिच्छेस्तर्हि प्रथमं चिन्तोत्पादकान्यद्यतनसाधनानि त्यज । अहं तत्साधनानामेकान्तेन न निषेधं करोमि, किन्तु तत्साधनेषु तादृशी प्रगाढासक्तिन करणीया, येन तानि विना स्थातुमेव न शक्नोहि, इति कथयामि ।