SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पूर्वमेव कथितं मया, एतत्तीर्थं समस्तप्रदूषणरहितमस्ति, इति । अत्रत्या जनाः परमशान्तिनिमग्नाः सन्ति, यतस्ते प्रकृतिदत्तवातावरणे वसन्ति, प्रकृतिदत्तं शुद्धमाहारमेव भक्षयन्ति, अद्यतनसाधनपिशाचाग्रथिलाश्च सन्ति । एतादृशे तीर्थे वसन्तो वयमपि परमशान्तिरूपाम्भोधौ निमज्जामः । तत एव साहजिकं सत्सुखमनुभूयतेऽस्माभिः । जननीनिभप्रकृत्या अङ्के निर्बन्धं लुण्ठनरूपं परमसुखमप्यनुभूयतेऽत्राऽस्माभिः । यदि त्वमपि परमसुखसहभागी भवितुमिच्छेस्तर्हि त्वरयाऽत्राऽऽगच्छ । प्रकृतिः त्वामाह्वयति, प्रकृतिस्तव स्वागतं कर्तुं प्रयत्नशीलाऽस्ति, प्रकृतिस्तु ते कण्ठे परमसहज-सुखशान्तिवरमालां परिधापयितु मुत्कण्ठिताऽस्ति । चेतन ! आगच्छ, आशु आगच्छ । __ अन्ते, यदा यदा त्वच्चित्ते परमशान्ति-सुखस्याऽभिलाषा स्यात्तर्हि अत्राऽऽगच्छेः, किन्तु रूप्यककोटि व्ययकरे स्थाने न गच्छेः, केवलं कान्यपि चिन्तोत्पादकाद्यतनसाधनानि नाऽऽनेतव्यानि, इति सूचयामि । अस्य तीर्थस्य भव्य इतिहासोऽस्ति, तद्विषये भविष्यत्काले लेखिष्यामि । ' ८.४
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy