SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रुत्वा मुनीन्द्र ! तव मेघगभीरवाणी मिथ्यात्वदर्दुरगिरं शृणुयान्न प्राणी । त्यक्त्वा सुधामधरगां लवणं च गच्छेत् क्षारं जलं जलनिधेरशितुं क इच्छेत् ॥११॥ अन्वयः मुनीन्द्र ! तव, मेघगभीरवाणीम्, श्रुत्वा, प्राणी, मिथ्यात्वदर्दुरगिरम्, न, शृणुयात्, कः अधरगाम्, सुधाम्, त्यक्त्वा, लवणम्, गच्छेत्, च, जलनिधेः, क्षारम्, जलम् अशितुम् इच्छेत् ? ॥११॥ वृत्ति: मुनीन्द्र ! - मन्तारः शास्त्रनिचयतत्त्वावगन्तारो मुनयः साधवः श्रमणा इति यावत्, तेषामिन्द्रः श्रेष्ठः प्रभुरिति यावद्, मुनीन्द्रस्तदामन्त्रणे तथा । " अथ· मुमुक्षुः श्रमणो यति: । वाचंयमो यतिः साधुरनगारी ऋषिर्मुनिः " १ / ७६ ॥ इत्यभिधानचिन्तामणिः । तव - श्रीमतो भवतः सूरिसम्राजः । मेघगभीर वाणीम् - मेघवद् वारिवाहवद् गभीरा गम्भीरा मेघगभीरा "उपमानानि सामान्यवचनैः" इति सूत्रेण समासः, सा चासौ वाणी भारती, भाषेति यावद् मेघगभीरवाणी तां तथा "ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती" इत्यमरः । श्रुत्वा आकर्ण्य । प्राणी - चेतन: । " प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः” इत्यमरः । मिथ्यात्वदर्दुरगिरम् - मिथ्यात्वं दर्शनमोह एव दर्दुरो मण्डूकस्तस्य गीर्वाणी मिथ्यात्वदर्दुरगिरस्तां तथा । " मण्डूके हरिशालूरप्लव भेकप्लवङ्गमाः । वर्षाभूः प्लवगः शालुरजिह्वव्यङ्गदर्दुरा: " ४/४२० ।। इत्यभिधानचिन्तामणिः । न नहि । शृणुयात् - आकर्णयेत् । विध्यर्थप्रयोगान्मेघगभीरमधुरां भवतो वाणीं विहाय मिथ्यात्वदर्दुरकृतकोलाहलो न सम्यग्दर्शनलिप्सुना प्राणिना श्रोतव्योऽपीति भावः । कः को नाम जनः । अधरगाम् अधरोष्ठगताम्, ओष्ठसंलग्नामिति यावत् । सुधाम् अमृतम् । पीयूषममृतं सुधेत्यमरः । त्यक्त्वा - विहाय । लवणम् - लवणसमुद्रम् । गच्छेत् - व्रजेत् । अपि तु नैव गच्छेदिति भाव: । च - पुनः । जलनिधेः - समुद्रस्य । क्षारम् - लवणार्द्रम् । जलम् सलिलम् । अशितुम् - भक्षितुम् । इच्छेत् - अभिलषेत् । अपि तु न कोऽपीति भावः । अमृतं विहाय लवणजलपानमिव भवदीय वचनं विहायाऽन्यदीयवचन श्रवणमिति निदर्शनालङ्कारः, "वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना" इति चन्द्रालोके तल्लक्षणस्मरणात् । - = दूरं गता विकृतिपोषकरा विहाय त्वां शीलरूपमणवोऽरितरं प्रमाय । ब्रह्मात्मनस्तव शरीरमरूपमस्ति यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ अन्वयः विकृतिपोषकराः, अणवः, शीलरूपम् त्वाम्, अरितरम्, प्रमाय, विहाय, दूरम्, ब्रह्मात्मन:, तव, शरीरम्, अरूपम्, अस्ति, यत्, ते, समानम्, अपरम् रूपम्, नहि, अस्ति ॥ १२॥ ३४ -
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy