SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ न्यायाधीशः (साक्षिणं) यदा कलहः प्रवर्तमानो भवता दृष्टस्तदा किमर्थं भवान् अपराधिनः सहायतार्थं न गतः ? साक्षी महोदय ! यदा कलहः प्रवर्तमान आसीत् तदा को वाऽपराधी भविष्यतीति निश्चितं नाऽऽसीत् !! (न्यायालये) साक्षिणी मदीयशब्दानां विश्वासो यदि न स्यात् तदा भवतु, मम न काऽपि हानिः । वस्तुतोऽहं सत्येन वृता। अभिभाषकः एवं, तर्हि भवती विधवा कदाऽभवत् ?? वृद्धो मुल्ला नासीरुद्दीन: सुहृद्-गोष्ठ्यां प्रवर्तमानायां कथितवान् - "भो ! यदाऽहं विंशतिवयस्क आसं तदा यादृशी दैहिकशक्तिर्मयि विद्यते स्म तादृशी त्वद्याऽपि विद्यते" । " नैव स्यात् तथा, भवता सप्रमाणं सिद्धं कर्तव्यं भवद्वचनम्" - इति मित्राण्यवदन् । "भोः ! मम गृहे या पेषणी वर्तते तस्या एकं प्रस्तरखण्डमहं विंशतितमे वयस्यपि वोढुं न शक्त आसीत्, इदानीमपि च नैव शक्तः !! १०८
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy