________________
काव्यानुवादः
।
जीवनचतुरङ्गः अनु. मुनिधर्मकीर्तिविजयः
रे मित्र ! जीवने उच्चावचत्वम् कदाचिद् अशोकपर्णतोरणाः कदाचिच्च बबूलस्य कण्टकाः
रे मित्र ! जीवने उच्चावचत्वम्
कदाचिद् द्वात्रिंशद् भोजनानि कदाचित् स्थाली रिक्तका
अमृतासवोऽप्यवाप्येत
कदाचित् रिक्तं भाजनम् मनसोऽस्मिन् शून्याङ्गणे कदाचित् कुङ्कमच्छोटनम्
रे मित्र ! जीवने उच्चावचत्वम्
इन्द्रचापीयस्वप्नान् सङ्ग्रह्य कालदेवस्य क्रीडनं द्रष्टव्यम् . सुख-दुःखयोश्चतुरङ्गः विजेयः
कदाचित् स्वपर्यायोऽपि नाश्यः आयुराकाशेन प्राप्ताः तेजःतिमिरयोः मार्गाः
रे मित्र ! जीवने उच्चावचत्वम् ।