SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जीवनमौक्तिकम् मुनिरम्याङ्गरत्नविजयः (१) निःश्रेयसमार्ग नियन्त्रणम् पञ्चसु इन्द्रियेषु सर्वाधिकप्रबलं दुर्गाह्यञ्च जिह्वेन्द्रियम् । एकैकक्रियाकर्तृणि सर्वाणि इन्द्रियाणि किन्तु जिह्वेन्द्रियस्य द्वे कार्ये स्तः । वदनं-आस्वादनञ्च । कार्यद्वयकर्तरि अस्मिन् रसनेन्द्रिये नियन्त्रणमत्यावश्यकम् । अयमेव निःश्रेयसमार्गः । बहुभाषणेन अत्यशनेन वा व्यक्तेर्जीवनं समूलं नष्टं श्रूयते । ततो वचनभोजनयोरतिमात्रां निरुध्याऽवसरानवसरविवेकवता भवितव्यम् । तथोक्तं - "अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम्" । इत्थं - परमशर्म प्रति जीवा अग्रेसरा भवन्ति । यथा वाचाऽस्मादृशां जीवनं स्वरसवाहि भवेत्, तथैव वाचा कदाचित् जीवनशैल्यव्यवस्थिता समाप्ताऽपि भवेत् । अतो वाग्विवेकं ज्ञात्वा वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत् ।
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy