________________
एतच्छ्रुत्वा साम्प्रदायिकानां विरोधो जातः । तदा गुरुः समाधानं कृतवान् यत् - "पर्वदिनाचरणं कृत्वा लक्षशो जना आनन्दिता भविष्यन्ति, किन्तु वर्तमानं दिवसं न केऽपि समाचरिष्यन्ति । ततश्च तेषामानन्दस्याऽवधिः सीमितः । परं, ये जना वर्तमानं दिवसं सानन्दं समाचरितुं शिक्षितास्तेषां कृते समेऽपि दिवसाः पर्वदिवसा एव ॥" -
(४) त्यागः एको गुरुः स्वशिष्येभ्यः कथामेकां श्रावितवान्
"कश्चन रसिको युवा देशान्तरदिदृक्षया गृहान्निर्गतः सन् विविधान् ग्राम-नगरारण्यादीन् विलोकयन्, जनजीवनं च निरीक्षमाणो, नदी-पर्वतादींश्च समुल्लङ्घयन् कदाचिन्महारण्यमेकं प्राप्तः । तच्च तादृग्गहनमासीत् यथा दिन-रात्र्योर्भेदोऽपि न ज्ञायते स्म । तथाऽप्यनुमानेनैव रात्रि दिनं च कल्पयन् स तदतिक्रमितुं प्रारभत शनैः शनैश्च तत्पारं प्राप्तवान् । यदा च सोऽटवीप्रान्तं प्राप्तस्तदैव तेनैकं विशालं सरोवरं दृष्टम् । तस्य चाऽपरस्मिन् तटे एकः समीकृतो भूभागो दृष्टः । ततश्च तेन चिन्तितं यत् - "तत्र केनाऽपि ग्रामेण भवितव्यमतो यद्यहं तं प्राप्नुयां तदा वरम् । परं तत्र कथं वा गन्तव्यम् ?" । तेन इतस्ततो विलोकितं, शुष्ककाष्ठखण्डाश्च दृष्टाः । शीघ्रमेव तेन काष्ठखण्डान् विचिन्त्यैका तरी निर्मिता तां चोपयुज्य स सरोवरस्य पारं प्राप्तवान् । अपरं तटं प्राप्य तेन चिन्तितं यत् - "सम्प्रति किमस्यास्ताः कर्तव्यम् ? किमत्र जले एव तां मुक्त्वा गन्तव्यं मयोत कस्यचिदुपयोगिनी भवेदित्यर्थं शुष्के स्थले स्थापनीया ?" ___"स चिन्तयतु नाम तत् । अहं तु भवद्भ्यः पृच्छामि, कथयन्तु, किं तस्यास्ताः कर्तव्यम् ?" इति गुरुः शिष्यानच्छत् ।
शिष्या अपि सकारणान्युत्तराणि दातुं प्रवृत्ताः, किन्तु गुरोस्तानि श्रुत्वा सन्तोषो नैव जातः । केषाञ्चिदुत्तरं समीचीनमासीत् परं तत्कारणजातं विवरीतुं ते न शक्ता अभवन् । तदैकस्तेजस्वी शिष्योऽवदत् - "तेन यात्रिकेण सा तरी त्यक्तव्यैव न तु रक्षयितव्या, यतो भवतैव शिक्षितं यत् कार्यसिद्ध्यनन्तरं साधनजातं त्यक्तव्यमेव, न पुनर्मोहाद् रक्षणीयं तत् । अन्यस्य कृते तस्य रक्षणं नाम तस्य कृते साधनं मार्गो वा निश्चेतव्य इति । तत् सर्वथाऽनुचितम् । स्वस्य मार्गः साधनं वा स्वयमेव निश्चेतव्यः साधकेन । अन्यथा सम्प्रदायः समुत्तिष्ठेत साधना च स्थगिता भवेत्" ।
गुरुणोक्तं - "सत्यं भवतोक्तम् । अस्माभिः प्रयुक्तं साधनं क्षुण्णः पन्था वाऽन्येषां शिरसि बलानैवाऽऽरोपणीयम् । सर्वेऽपि साधकाः स्वीयप्रकृत्यनुसारं परिस्थितेरनुरूपं च साधनं मागं च निश्चिन्वन्तु नाम !" |