________________
जैनाचार्यश्रीमद्विजयकमलसूरिवाणां गुणस्तुत्यष्टकम्
मुनिचतुरविजयः
(शिखरिणी च्छन्दः) सुरारातिक्षुब्धाऽमरमथितपीयूषजलधिपरिस्फूर्जत्तुङ्गोर्मिरुचिरुचिरं यस्य वचनम् । जनानामाह्लादं हृदि वितनुते तं गुणनिधि, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥१॥ क्व मे स्वामी धन्यः सकलजनचेतःसुखकरः, क्व ते नाथः क्रूरो निखिलजनताखेदितमनाः । प्रतापौ संवादं तनुत इति यस्याऽपि च रवेः, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥२॥ निशाधीशज्योत्स्नानिवहविशदेलाधरशिरःक्षरद्गङ्गावेलापटलविमलं यस्य वचनम् । सुभक्तानां नाशं नयति नितरां कल्मषचयं, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥३॥ समुद्रं गाम्भीर्यात्तरणिमपि तेजोभिरनघैहिमांशुं वाक्च्छैत्याद्विमलाधिषणातः सुरगुरुम् । यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या तं वन्दे विजयकमलाचार्यमनिशम् ॥४॥ हिमक्ष्माभृत्पुत्रीचरणनतभूतेशमुकुटपतद्भङ्गाधाराभरधवलबालेन्दुकररुक् ।