________________
वाचकानां प्रतिभावः
मान्याः । · सादरं प्रणतयः ।
३४तम्यों शाखायां प्रास्ताविके यदुक्तं तच्चिन्तनीयमस्ति सर्वैः शिक्षकैः शिक्षाक्षेत्रे निरतैः सुजनैश्च । अत्र ६५तमे पृष्ठे पत्रचर्चायां चोकसीमहाभागेन यदुच्यते तत् कथमपि न युज्यते । वारपरम्पराऽस्मदीया भवतु न वा, भारते या वारपरम्पराऽङ्गीकृता विद्यते तत्र प्रथमो वारो रविवार एवाऽस्ति, न तु सोमवारः । हरिहरपाण्डेयमहाभागोऽपि स्वकीये ग्रन्थे ७६-७७तमपृष्ठयोः "चौघडिया-मुहूर्त"विवरणे प्रथमवारत्वेन रविवारमेवाऽङ्गीकरोति । अथर्वज्योतिषे 'आदित्यः सोमो भौमश्च, तथा बुध-बृहस्पतिः । भार्गवः शनैश्चरश्चैव, एते सप्त दिनाधिपाः' (द्रष्टव्यम्, कल्याणपत्रिका ८८/१, 'ज्योतिषतत्त्वाङ्क'. पृ. २१०, 'भारतीयकालगणना') इति वचनेन स्पष्टतया ज्ञायते यद् भारतीयपरम्परायां सर्वत्र प्रथमवारत्वेन 'रविवारः' एव स्वीक्रियते । ज्योतिषग्रन्थेषु दिनगणना रविवारत एव क्रियते ।
- डो. रूपनारायण-पाण्डेयः (प्रयागः)
सम्मान्याः!
सादरं नमो नमः।
३४तमे नन्दनवनकल्पतरौ सर्वेऽपि स्तम्भाः सहृदयजनचित्तावर्जकाः । परम् आ.विजयहेमचन्द्रसूरीणां "परमात्मप्रार्थना" सरला रुचिरा निर्दूषणा गुणवती रसभावपूर्णा च वर्तते । एवं च मुनिन्यायरत्नविजयानां डॉ. वासुदेवपाठकमहाभागानां च "अन्तरालापा:" सरला मनोहरा बुधजनचित्तापहारकाश्चेति । प्रत्येकमन्तरालापस्य चरमे चरणे दत्तमुत्तरं सदुक्तिश्च बोधप्रदाविति ।
- किशोरचन्द्र-पाठकः (अमरेली)