Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१२१८॥
पतयेत् कर्मामामपि कर्मनिमित्तधर्मा भवस्थस्य
'केसो त्ति जीवधम्मो होज मई होउ कहमजीवस्स। कह वा भवत्थधम्मो होउ भवाओ विमुक्करस ? ॥३१५६॥
व्याख्या-- नन्वेवं तर्हि गतिमत्त्वाद् मुक्तात्मा विनाशी, क्लेशी, गत्यागमी च प्रामोति, मनुष्यवदिति दृष्टान्तः । सूरिराह-- गतिपर्यायाद् गतिपर्यायमाश्रित्य भवतु मुक्तात्मा विनाशी, न नः काचित् क्षतिः, पर्यायरूपतया सर्ववस्तुविनाशित्वस्याभ्युपगतत्वात् । सर्वथा तु विनाशी गतिमत्त्वे सत्यपि न भवत्यसौ, परमाणुवदिति । क्लेशी तु न भवत्येवासौ, यतः क्लेशानां निमित्तं कर्मैव, न तु गतिः, ततस्तदभावात् कर्माभावात् तको रागादिक्लेशः कुतः। अथ गतिरेच क्लेशनिमित्तमिष्यते, तर्हि किमजीवानां परमाण्वादीनां गतिमत्त्वे सत्यपि तकः क्लेशो न भवति । तस्मादनकान्तिकोऽयं हेतुरिति । अथ परस्य मतिर्भवेत्- जीवस्यैव धर्मः क्लेशः स कथमजीवस्य परमाण्वादेर्भवेत् ?, तर्हि हन्त ! गतिमत्त्वे सति यः क्लेशित्वधर्मो भवस्थस्य मनुष्यादेदृष्टः स कथं भवात् संसाराद् विमुक्तस्य भवेत् ?- न भवत्येवेत्यर्थः। एवं गत्यागमित्वमपि कर्मनिमित्तमेव, ततस्तदपि कर्मविमुक्तस्य गतिमत्त्वे सत्यपि न भवतीति स्वयमेव द्रष्टव्यम् । समयमेकं च गतिर्यत् कर्माभावेऽपि भवति, तत्र 'लाउ य' इत्यादिना कारणमुक्तम् , इत्यलं बहुभाषितेनेति । । ॥ ३१५४ ॥३१५५ ॥ ३१५६॥
अथ वक्ष्यमाणस्य प्रस्तावनामाह--
जै गइमओ विघाओऽवस्सं तत्कारणं च जदवस्सं । विहियस्सावत्थाणं जओ य गमणं तओ पुच्छा ॥३१५७||
यद् यस्माद् गतिमतोऽवश्यं कचिदपि गतेर्विघातो भवति, तस्य च गतिविघातस्यावश्यमेव कारणं किमपि यद् यस्माद् भवति, न तु निर्हेतुकोऽसौ जायते, अतिप्रसङ्गात् । विहितस्य च निषिद्धगतेश्च तस्य नियमेनावस्थानं भवति । यत्र चावस्थानं तत्र यतो यस्मात् स्थानात् तस्य गमनं भवति तदवश्यं वक्तव्यम्' इति शेषः । ततस्तस्मात् पृच्छा विधीयते ॥ इति सप्ततिगाथार्थः ।३१५७
केयं पुनः पृच्छा इत्याह-- कहिं पडिहया सिद्धा कहिं सिद्धा पइट्ठिया । कहिं बोंदि चइत्ताणं कत्थ गंतूण सिज्झइ ? ॥ ३१५८ ॥
, क्लेश इति जीवधर्मों भवेद् मतिर्भवतु कथमजीवस्य । कथं वा भवस्थधर्मों भवतु भवाद् विमुक्तस्य ? ॥ ३१५६ ॥ २ गाथा ३१४१ । ॥१२१८॥ ३ यद् गतिमतो विधातोऽवश्यं तत्कारणं च यदवश्यम् । विहितस्यावस्थानं यतश्च गमनं ततः पृच्छा ।। ३१५७ ॥ ४ कुत्र प्रतिहताः सिद्धाः कुन सिद्धाः प्रतिष्ठिताः । कुत्र शरीरं त्यक्त्वा कुन गत्वा सिध्येयुः ॥ ३१५८ ॥
मामालनी
Jain Educationa.Intern
For Personal and Price Use Only
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160