Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 68
________________ विशेषा० ॥१२६६॥ Jain Educators in भो निश्चयनयवादिन् ! यदि परभवप्रथमसमये शाटोऽभ्युपगम्यते, निर्विग्रहतश्च ऋजुश्रेण्या चोत्पद्यमानस्य तस्मिन्नेव समये संघात इष्यते, तदा नन्वहो सर्वशाटसंघात युगपदेकस्मिन्नेव समये विरुद्धौ तौ प्राप्नुतः, सर्वशाटस्य पूर्वभवशरीरसंबन्धित्वात् सर्वसंघातस्य च भवान्तरगतशरीरविषयत्वात्, भवद्भयशरीरयोश्च युगपत्सत्त्वस्य दुरविरुद्धत्वादिति ॥ ३३२१ ॥ _ निश्चयनयवादी प्रतिविधानमाह जम्हा विगच्छमाणं वियं उप्पज्जमाणमुप्पण्णं । तो परभवाइसमए मुक्खा दाणाण न विरोहो ॥३३२२॥ यस्मात् पूर्वभवशरीरं परभवाद्यसमये विगच्छद् विगतम्, उत्पद्यमानं स्वग्रेतनभवशरीरमुत्पन्नम्, क्रियाकाल निष्ठाकालयो रभेदात् । ततस्तत्र मोक्षा-ऽऽदानयोरिष्यमाणयोर्न कश्चिद् विरोधः, मुच्यमानस्य मुक्तत्वेनैकस्यैवाग्रेतनभवशरीरस्य तत्र सद्भावादिति ।। अपि च, मरणसमयः परभवाद्यसमयत्वेनाभ्युपगन्तव्य एव, अन्यथा दोषसंभवादित्याह चुइसमए नेहभवो इहदेहविमोक्खओ जहाऽतीए । जइ न परभवो वि तहिं तो सो को होउ संसारी?॥३३२३॥ च्युतिसमये इहभवशरीरा ऽऽयुः पुद्गल सर्वपरिशाटसमये तावदिहभवो न भवति इहभवदेहस्यायुषश्च मुच्यमानत्वात् मुच्य मानस्य च सर्वथा विमोक्षात्, क्रियाकाल-निष्ठाकालयोरभेदादिति । 'जहात्तीए त्ति' यथाऽतीतजन्मनहिभवो नास्ति, अत्रत्यदेहाभावात्, तथा च्युतिसमयेऽप्यसौ न भवत्येव, इहभवदेहा भावस्याविशेषादित्यर्थः । एवं च सति यदि यस्मिंश्च्युतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु, इहभवत्वस्य भवद्युक्तित एव निषेधात्, परभवत्वस्य तु त्वयाऽप्यनभ्युपगम्यमानत्वात् ? । संसारित्वेन च मुक्तव्यपदेशाभावाद् निर्व्यपदेश एवासौ स्यादिति ।। ३३२३ ।। व्यवहारनयवादी प्राह नै जह विग्गहकाले देहाभावे वि परभवग्गणं । तह देहाभावम्मि वि होजेहभवो वि को दोसो ? ॥३३२४॥ ननु यथा विग्रहका विग्रहेण परभवगमनकाले पारभविकदेहाभावेऽपि जीवस्य परभवग्रहणं नारकादिपारभविकव्यपदेशः, ११ यस्माद् विगच्छद् विगतमुत्पद्यमानमुश्पन्नम् । ततः परभवादिसमये मोक्षा-ऽऽदानयोर्न विरोधः ।। ३३२२ ।। २ युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीते । यदि न परभवोऽपि तर्हि ततः स को भवतु संसारी ? ।। ३३२३ ।। ३ ननु यथा विग्रहकाले देहाभावेऽपि परभवमहणम् । तथा देहाभावेऽपि भवेदिह भवाऽपि को दोष: ? ।। ३३२४ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥१२६६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160